SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । व्याधयः संप्रवर्धन्ते धननाशः कुलक्षयः । राजदण्डभयं च स्यादपत्यानां च पीडनम् ।। १२३ ॥ षड्दारुकाणां मध्येधुं द्वारमध्येषु वा पुनः । कर्णद्रव्यादिभिर्विद्वेष्वेतदेवादिशेत् फलम् ॥ १२४ ॥ संविद्धा नागदन्तैर्या स्तम्भैर्वातायनैस्तथा । शय्या शस्त्राद् भयं भर्तुः कुर्यात् तस्करतोऽपि वा ॥ १२५ ॥ गृहमध्ये कृतं द्वारं द्रव्यकोशविनाशनम् । आवहेत कलहं भतुभोयाँ वास्य प्रदूषयेत् ॥ १२६ ।। द्रव्येणैकोत्तरेणापि महाममणि पीडिते । सर्वस्वनाशो गृहिणो मरणं वा ध्रुवं भवेत् ॥ १२७ ॥ द्वारस्तम्भतुलालिन्दै(चीच)यदोषैः सेमीरितैः । विसूत्रे नागदन्तेऽपि तच्छ्न्यं जायते गृहम् ॥ १२८ ।। विभागपदहीनेषु रूपस्थानेषु वास्तुएं । यक्षमातृक्रियायेषु रोगान्मृत्युने संशयः ॥ १२९ ॥ कटुकण्टकिदुर्गन्धिगुह्यकाद्याश्रयान् दुमान् । न धारयेत् समीपस्थान् पुरप्रासादवेश्मनाम् ॥ १३० ॥ बदरी कदली चैव दाडिमी बीजपूरिका । प्ररोहन्ति गृहे यत्र तद्गृहं न प्ररोहति ॥ १३१॥ द्रव्यं द्रव्याधिकं हन्ति कुलमायामतोऽत्रिकम् । उच्छ्याभ्यधिक पूजां सन्तति विस्तराधिकम् ।। १३२ ॥ स्तम्भाभित्तिभिः पट्टैः शीर्षकैर्भवनैस्तथा । आलोकनातोरणाद्यैश्छाद्यकैः कन्दकूटकैः ॥ १३३ ॥ हीरशाखोत्तमाफ़ैश्च तुलाभिः सन्धिपालकैः । भर्गलार्वेदिकाभिालैर्जालेश्च नूतनः ॥ १३४ ॥ घातितः पातितैन(टै?ष्टि)जायते गृहिणो ध्रुवम् । व्याधिदारिखदुःखार्तिनिर्धनत्वं च जायते ॥ १३५ ।। 1. 'तु', २. 'वृक, ख. पाठः । ३. 'न्दै' क. पाठः। ४, 'स्व'... ना .. 'कि' क... सरः। 8. 'नः', .. . "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy