________________
२५०
समराङ्गणसूत्रधारे
आद्यन्तविस्तृतं यत् स्यात् संक्षिप्तं चापि मध्यतः । मृदुमध्यं तदुद्दिष्टं क्षुद्भयं तत्र जायते ॥ ५६ ॥ विषमैरुन्नतैः कर्णैर्धनक्षयकरं गृहम् । भित्तिचापि कर्णेषु प्रागुक्तं फलमादिशेत् ॥ ५७ ॥ मध्ये द्वारं न कर्तव्यं मनुजानां कथञ्चन । मध्ये द्वारे कृते तत्र कुलनाशः प्रजायते ॥ ५८ ॥ द्वारं द्वारेण वा विद्धमशुभायोपपद्यते । अनिष्टद्रव्यसंयुक्तं धनधान्यविनाशनम् ॥ ५९ ॥ नवं पुराणसंयुक्तमन्यं स्वामिनमिच्छति । अधोग्रं राजदण्डाय विद्धं द्वारं विगर्हितम् ॥ ६० ॥
नवं पुराणसंयुक्तं द्रव्यं तु कलिकारकम् । न मिश्रजातिद्रव्योत्थं द्वारं वा वेश्म वा शुभम् ॥ ६१ ॥ गृहस्थानेषु यद् द्रव्यमधिवास्य प्रतिष्ठितम् । तश्वालनेन चलनं गृहभर्तुः प्रजायते ॥ ६२ ॥ अन्यवास्तुच्युतं द्रव्यमन्यवास्तौ न योजयेत् । प्रासादे न भवेत् पूजा गृहे च न वसेद् गृही ॥ ६३॥ द्रव्येण देवदग्धेन भवनं यद् विधीयते । न तत्र वसति स्वामी वसन्नपि विनश्यति ॥ ६४ ॥ सूर्योद्भवा द्रुमच्छाया ध्वजच्छाया च गर्हिता । द्वारातिक्रमणादेताः क्षुदव्याधिकलिकारकाः || ६५ ॥ प्रासादशिखरच्छाया ध्वजच्छायेति कीर्तिता । त्रिपञ्चसप्तमी भर्तुर्गृहतारा न शोभना ॥ ६६ ॥ निम्नोन्नतं करालं च सम्मुखं पृष्ठदेशगम् । वामावर्त च न शुभं द्वारमग्रतरं गृहे ॥ ६७ ॥ निम्ने स्यात् स्त्रीजितो भर्ता दुर्जन स्थितिरुन्नते । सम्मुखे सुतपीडा स्यात् पृष्ठगे चपलाः स्त्रियः ।। ६८ ।। वामे वित्तक्षयो द्वा (रि१रे) भवत्यग्रतरे प्रभोः । द्वारं तस्मान्न कर्तव्यमीदृग्रूपं विचक्षणैः ॥ ६९ ॥
१.
ख. म. गकः । २ 'सुनियो 'क, ख
"Aho Shrut Gyanam"