________________
२०
गृहदोषनिरूपणं नामाष्टचत्वारिंशोऽध्यायः । कृत्तानि यत्र चीयन्ते गवाक्षालोकनानि च । तत्र प्रसूतिर्न भवेनिष्पन्नापि विनश्यति ॥ ४३ ॥ चीयमाना यदा भित्तिर्दक्षिणा स्याद् बहिर्मुखी । तदा व्याधिमयं विद्यान्नृपदण्डभयं तथा ।। ४४॥ यदा तु पश्चिमं कुड्यं प्रयाति बहिरग्रतः । धनहानि विजानीयाचौरेभ्यश्च भयं तदा ॥४५॥ उत्तरं तु यदा कुड्यं चीयमानं बहिर्बजेत् । गृहमतुश्च कतुश्च व्यसनं स्यात् तदा महत् ।। ४६ ।। यदानं चीयमानायाः पूर्वभित्तेर्वहिजेत् । तदा गृहपतेस्तीनं राजदण्डमयं भवेत् ॥ ४७॥ प्राग्दक्षिणो यदा कर्णश्चीयमानो बहिजेत् । तत्राग्निभीतिरतुला संशयश्च प्रभोभवेत् ॥ ४८ ॥ बहिर्मुखो यदा गच्छेत् कर्णो दक्षिणपश्चिमः । कलहोपद्रवस्तत्र स्याद् भायायाश्च संशयः ॥ ४९ ॥ यत्रोत्तरापरः कर्णश्चीयमानो बजेद बहिः । पुत्रवाहनभृत्यानां भवेत् तस्मिन्नुपद्रवः ॥ ५० ॥ यदा प्रागुत्तरः कर्णो बहिर्गच्छति वेश्मनः । तदा गवां वृषाणां च गुरूणां च क्षयो भवेत् ।। ५१ ॥ चतस्रो भित्तयो यस्य बहिर्निन्ति वेश्मनः । चीयमानास्तदत्रोक्तं मन्दिरं मल्लिकाकृति ॥ ५२ ॥ ताग गृहे न तवायो व्ययो भवति यादृशः। कर्शितोऽस्यैव दोषेण तस्य भर्ता पलायते ॥ ५३ ॥ संक्षिप्यते तु यद वेश्म चीयमानं समन्ततः । संक्षिप्तमिति तज्ज्ञेयं तत्र राजभयं भवेत् ।। ५४ ॥ यत् स्यादन्तेषु संक्षिप्त विस्तृतं चापि मध्यतः । मृदङ्गाकृतिसंस्थानं तत्र व्याधिभयं भवेत् ॥ ५५ ॥
१. 'ता' ख. पाठः । २. 'यो' क, 'वी' ख, पाठः। ३. 'खा' क, पाठः। ४. 'सा' शठ1
"Aho Shrut Gyanam"