________________
२४४
समराङ्गणसूत्रधारे अथ वेदीलक्षणं नाम सप्तचत्वारिंशोऽध्यायः ।
वेद्यश्चतस्रो विज्ञेया याः पुरा ब्रह्मणोदिताः। वयं ताः संप्रवक्ष्यामो नामसंस्थानमानतः ॥१॥ प्रथमा चतुरश्रा स्यात् सभद्रा च द्वितीयका । तृतीया श्रीधरी नाम चतुर्थी पद्मिनी स्मृता ॥२॥ यज्ञकाले तथोद्वाहे देवतास्थापनेषु च। नीराजनेषु सर्वेषु वह्निहोमे च नित्यशः ॥ ३॥ नृपाभिषेचने चैव शक्रध्वजनिवेशने । नृपयोग्या भवन्त्येता वर्णानामनुपूर्वशः ॥ ४ ॥ चतुरश्रा तु या वेदी नवहस्ता समन्ततः । अष्टहस्ता प्रमाणेन सर्वभद्रा प्रकीर्तिता ॥ ५ ॥ श्रीधरी सप्त विज्ञेया हस्तान् मानेन वेदिका । षडस्ता चैत्र शास्त्रज्ञैर्नलिनीह विधीयते ॥ ६ ॥ चतुरश्रा तु कर्तव्या चतुरश्रा समन्ततः । भद्रैस्तु सर्वतोभद्रा भूषणीया चतुर्दिशम् ।। ७ ।। श्रीधरी चापि विज्ञेया कोणविंशतिसंयुता नलिनीति च विज्ञेया पद्मसंस्थानधारिणी ॥ ८ ॥ कर्तव्याः स्वस्वविस्तारादुच्छ्रयेण त्रिभागिकाः। कुर्यान्मन्त्रवतीभिस्ता इष्टकाभिस्तु चा(य?यि)ताः ॥ ९ ॥ चतुरश्रा यज्ञकाले विवाहे श्रीधरी स्मृता । देवतास्थापने वेदी सवेभद्रां निवेशयेत् ॥ १० ॥ नीराजने साग्निकार्ये तथा राजाभिषेचने । वेदी पद्मावती या च तथा शक्रध्वजोच्छ्रये ।। ११ ।। चतुर्मुखा तु कर्तव्या सोपानश्च चतुर्दिशम् । प्रतीहारसमायुक्ता चार्धचन्द्रोपशोभिता ।। १२ ।।
१. 'तासां प्र', २. स्तोन्मा' , ३. 'व्या स्व', ४, 'का' क. पाठः । ५. 'काः म. ग, पाठः।
"Aho Shrut Gyanam"