SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २४२ समराङ्गणसूत्रधारे नते वा शीर्णभने वा व्याधिपीडां विनिर्दिशेत् । होमं वलिं च कुर्वीत पुनः संस्कारमस्य च ॥ १२ ॥ वातेन विद्युता वापि तोरणं यदि भज्यते । तस्मिन् रोगाः प्रवर्तन्ते कुलपीडाधनक्षयः ।। १३ ॥ शान्तिकर्म प्रकुर्वीत ततः शान्तिकरं भवेत् । एवमादौ ते पश्चात् पुनः संस्कारयेद् चुधः || १४॥ पूर्वावयवनिर्माणाद् विशिष्टं रचयेत् पुनः । सन्नगूढं च द्रव्यसमन्वितम् ॥ १५ ॥ विविधं रूपकर्माढ्यं सुसंस्थानं मनोरमम् । अकुब्जमनतं चैत्र पूर्वोत्कृष्टतरं तथा ।। १६ ।। नियुक्ते तु पुनः शान्ति ब्राह्मणान् वाचयेत् ततः । पुराणे वा नवे वाथ कृते वा ।। १७ ।। प्रासादे वा गृहे वापि कपोतः प्रविशेद्यदि । तत्र दोषाः प्रपद्यन्ते शान्तिकर्म तथैव च ॥ १८ ॥ कालमूर्तिः कपोतव पापमूलकरण्डकम् । विज्ञापशदो हीनः कृष्णचारी विहङ्गमः ॥ १९ ॥ चतुर्विधः समाख्यातो मुनिभिः स तपोधनैः । Pant विचित्र विचित्रोऽन्योऽथ कृष्णकः ।। २० ।। कपोतो भवने यस्य श्वेतवर्णो विशेत् कचित् । कीर्त्तिविद्याधनं पुण्यं शीघ्रं च नवते क्षयम् ॥ २१ ॥ नित्यं रोगाः प्रवर्धन्ते शिशुपीडा च जायते । चित्रकण्ठो हरेज्जायां पुत्रान् सर्वान् विचित्रकः ॥ २२ ॥ सर्वाः सिद्धीच कृष्णाङ्गः प्रदुष्ये च कुलं हरेत् । रोगाः सर्वेऽपि वर्धन्ते विपदो व्यसनानि च ॥ २३ ॥ बन्धनानि च जायन्ते प्रविष्टे तु कपोतके । तस्मद् यत्नपरो भूत्वा प्रायश्चित्तं समाचरेत् ॥ २४ ॥ १. 'य:' क. ग. पाठः | २. 'दृढ' ख. ग. पाट: । ३. 'न' ग. पाठ: । ४. ' कलि सूत्रे क' क. पाल: । ५. 'छु' क. पाठः । ६. 'ध्यं' ग. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy