SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ अथ तोरणभङ्गादिशान्तिको नाम षट्चत्वारिंशोऽध्यायः पुरातनं नवं वापि कृतं वाथार्धनिर्मितम् । देवतानां नृपाणां च तोरणं निपतेद् यदि ॥ १ ॥ भज्यते दह्यते वाथ नमते सज्जतेऽथवा।। दवविद्युजलायेवों हन्यते तत् कदाचन ।। २ ॥ तत्र दोपान् प्रवक्ष्यामो दोषप्रशमनानि च । तोरणं निपतेत् सर्व शिरो वास्य कथश्चन ॥ ३ ॥ राज्ञां सेनापतीनां च प्रतीहारपुरोधसाम् ।। प्रधानांश्वगजानां च विप्रपौरजनस्य च ।। ४ ।। तत्र मृत्युभयं विद्याद् दुर्भिक्षं चापि निर्दिशेत् । तस्मात् प्रशमहेत्वर्थ विधिं कुर्यादिमं बुधः ।। ५ ।। ऋविग्भिाह्मणेधीर : स्थपतिः सपुरोहितैः । रात्रौ होमवलिं कुर्यान्नगरे तु चतुर्दिशम् ।। ६ ॥ कर्णचत्वरशृङ्गाटेष्ववनीपालवेश्मनि । स्थानेष्वेतेषु विप्राद्यर्वेदि निष्पाद्य साक्षताम् ॥ ॥ ७ ॥ कलशैव्यगन्धैश्च श्वेतमाल्याम्बरैष्टताम् । तत्र होमं प्रकुर्वीत शान्तिकं वलिमेव च ॥ ८ ॥ एवं प्रशमयेत् सर्वं यत्किश्चिद् दुरितोत्थितम् । तोरणं भज्यते चेत् तद्राष्ट्रभङ्गं विनिर्दिशेत् ।। ९॥ अस्य प्रशमहेत्वर्थ पूर्वोक्तं कारयेद् विधिम् । तदेवैकं प्रदह्येत तोरणं नगरे(य?य)दि ।। १० ।। तदा वह्निभयं याद राष्ट्रस्य नगरस्थ च ।। सवाह्याभ्यन्तरं विविधिमेनं प्रयोजयेत् ॥ ११ ॥ १. 'ऋषीणां च : ख. ग. पाठः । २. 'पत्यते य' क, नृपतर्यदि' ग. पाठः । ३. 'नानां ग ' 'व. ग. पाठः । ४. वी. ५. 'तदा चैक' क. पाठः । ६. 'रै'. ग. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy