________________
२३०
समराङ्गणसूत्रधारे सोमं तत्र यजेद् देवं प्रायश्चित्तं समाचरेत् । सुखी भवति कृत्वैवं कुटुम्बी शान्तिकं च तत् ।। ६५ ॥ स्थूणाराजस्य यस्याग्रं वक्रं दक्षिणतो भवेत् । शरीरं व्यथते तत्र प्रतिसंवत्सरं स्थिरम् ॥ ६६ ॥ पृष्ठतो दीर्घशोकः स्यादुत्तरेण धनक्षयः । पूर्वतो राजदण्डः स्यात् तस्मात् तद् ऋजु शस्यते ।। ६७ ॥ चत्वार्यङ्गानि हिंस्यन्ते शरीरा ये च वेश्मनः । तुला वा पृष्ठवंशो वा धार(ण्यां?णी)चोत्तराम्बरः ॥ ६८ ॥ उक्तांस्तत्र वलीन् कुर्यात प्रायश्चित्तं तथाचरेत् । एवं धन्यं शिवं पुष्टिप्रजावृद्धिकरं भवेत् ॥ ६९ ॥
इत्थं निमित्तानि गृहाश्रितानि ___ ज्ञात्वा प्रष्टाञ् शकुनांश्च सर्वान् । शान्ति प्रकुर्वन पृथगुक्तरूपां
प्राप्नोति कीर्तिं सुखमर्थमायुः ।। ७० ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरवनि वास्तुशास्त्रे
शान्तिकर्मविधिनाम द्विचत्वारिंशोऽध्यायः ।।
अथ द्वारभङ्गफलं नाम त्रिचत्वारिंशोऽध्यायः ।
यदत्र नवकर्मोक्तं तद् यज्ञेषु गृहेषु च । ज्ञेयं ग्रामे पुरे वापि नगरे पत्तने तथा ॥ १ ॥ संस्थानमाकृतिर्मानं हासंवृद्धी च बाहुषु । एकमेव विजानीयात् सर्वत्रैव विचक्षणः ॥ २ ॥ यूपस्यैव निमित्तानि दारुकर्मणि निर्दिशेत् । पातं पते विजानीयात तक्षणं तक्षणेन च ॥ ३ ॥
१. 'कर्म त' स्त्र, 'कर्मवित्' ग. पाठः । २. 'ते!' क. पाठः। ३. 'थोत्त' स्व. ग. पाटः । ४. 'ह' क. पाठः । ५. 'सं' ब, ग, पाट: ।
"Aho Shrut Gyanam"