________________
शान्तिःकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः ।
२२९ तद्विधं क्षमानीय स्थापयेत् तां स्वलकृताम् । ततस्त्वन्याः क्रियाः पश्यन् कारयेन्मतिमान् नरः ॥ ५३॥ वधूभिव नवैर्वस्त्रैः प्रनिच्छाद्य स्वलकृताम् । ब्राह्मणान् वाचयेत् स्वस्ति ततस्तां प्रति कारयेत् ॥ ५४ ।। सुखी भवति कृत्वैवं धनैनित्यं विवर्धते । कर्णिकास्वान्तरस्थूणामालापादोऽथ भज्यते ॥ ५५ ॥ तदगृही दुःखमानोति तस्मिन्नुत्पातलक्षणे । आनीय स्थपतिं तत्र प्रज्ञावन्तं बहुश्रुतम् ॥ ५६ ॥ तत्र वास्तुविभागेन यो देवः स्याद् विनिश्चितः । तस्मै देवाय जुहुयात् प्रायश्चित्तं चे कारयेत् ॥ ५७ ।। सुखी भवति कृत्वैवं सर्वतश्चाभिवर्धते । युगं तु व्यथते यत्र तत्र स्यात् पशुपीडनम् ।। ५८ ॥ यजेत तस्मिन्नीशानं प्रायश्चित्तं च कारयेत् । तद्विधं वृक्षमानीय युगं तत् प्रति कारयेत् ॥ ५९ ॥ एवं कृते सुम्वं तस्य पशुद्धिश्च जायते । तुलया अंगयोवापि(?) पादो यस्य प्रभज्यते ॥ ६० ॥ आर्युहानिर्भवेत् तत्र वलदेवं प्रपूजयेत् । प्रायश्चित्तं ततः कृत्वा पुनस्तं प्रति कारयेत् ।। ६१ ॥ सुखी भवति कृत्वैवं कुटुम्बी शान्तिकं च तत् ।। द्वारा यस्य माहेन्द्रं हिंस्यने नवकर्मणि ॥ ६२॥ इन्द्रं तत्र यजेद् देवं प्रायश्चित्तं तथाचरेत् । गृहक्षतस्य द्वाराङ्गे पूजयेद् यममेव त(?म् ) ॥ ६३ ॥ पुष्पदन्तस्य द्वाराङ्गे वरुणं नत्र पूजयेत् । द्वाराङ्गं यस्य भल्लोटं हिंस्यते नवकर्मणि ।। ६४ ॥
- - - - - - १. 'स्त्विमा: कि', ख. ग. पाठः । २. प्रतिमान', क. पाठः । ३. धान्यैश्च व' ख. ग. पाठः । ४. 'तथाचरेत क.ग, पाठः । ५. 'आ' ख. पाठः ।६. यहानिः , ७, 'कर्म तत्' ख. ग, पाठः । ८. 'दे' क. पाठः ९, 'या' ख. ग. पाठः।
"Aho Shrut.Gyanam"