SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ ३२८ समराङ्गणसूत्रधारे राजराज यजेत् तत्र प्रायश्चित्तं तथाचरेत् । सुखी भवति तत् कृत्वा सर्वतश्चाभिवर्धते ।। ४१ ॥ सर्वेषु स्वस्ति वाच्याच ब्राह्मणा दक्षिणाक्षतैः । वारणो भज्यते यस्तु ज्येष्ठं पुत्रं स (वाज्याबाध)ते ॥ ४२ ॥ पृथ्वीधरं यजेत् तत्र प्रायश्चित्तं तथाचरेत् । तद्विधं वृक्षमानीय पुनस्तं प्रति कारयेत् ।। ४३ ॥ सुखी भवति कृत्वैवं पुत्रैश्चापि विवर्धते । संग्रहो भज्यते यस्तु कुलज्येष्ठं स (वार्धवाघ)ते ॥ ४४ ॥ पितृन देवान् यजेत् तत्र प्रायश्चित्तं तथाचरेत् । सुखी भवति कृत्वैवं प्रीयन्ते पितरस्तथा ॥ ४५ ॥ स्थूण्यं तु भज्यते यस्य तनयस्तस्य बाध्यते । देवानेव यजेत् तत्र प्रायश्चित्तं तथाचरेत् ॥ ४६ ॥ तद्विधं वृक्षमानीय तत् स्थौण्यं प्रति कारयेत् । सुखी भवति कृत्वेवं पुत्रैश्चापि विवधेने ॥ ४७ ।। उपधी व्यथते यत्र तत्रामात्यो विनश्यति । यजेत वासवं तत्र प्रायश्चित्तं तथाचरेत् ॥४८॥ आनीय तद्विधं वृक्षमुपथिं प्रति कारयेत् । एवं कृते भवेत् सौख्यममात्यैश्च विवर्धते ।। ४९ ।। कायस्तु व्यथते यस्य प्रेष्यस्तस्योपहन्यते । यक्षं तत्र यजेद् देवं प्रायश्चित्तं तथाचरेत् ।। ५० ॥ तद्विधं काष्ठमानीय कायं तं प्रति कारयेत् । एवं कृते सुखी स स्यात् प्रेष्यैरपि विवर्धते ॥ ५१ ॥ तुला तु व्यथते यस्य व्यथतेऽस्य कुटुम्बिनी । यजेत मेदिनी तत्र प्रायश्चित्तं तथाचरेत् ।। ५२ ॥ .. 'ता' ख. ग. पादः । २, 'चाल्यते' ख., 'पाल्यते' ग. पाठः । ३. 'समाच', ४. विर्भयेत् । क. पाठः । ५, ‘स्मा प्रेषस्त' ख, ग, पाकः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy