________________
शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः । २२७ संयुक्तं सङ्ग्रहो हन्ति निकृष्टांश्चाधरो धरः । स्थाण्यानि प्रतिमोको वा हन्युरिष्टान् परिच्छदान् ।। २९ ।। उ(द?पोधिभगिनी हन्यादथवा परिचारकान् । पुंसां पुन्नामभिर्द्रव्यैः स्त्रीणां स्त्रीनभिर्भवेत् ।। ३० ॥ उपघातो हतैर्नित्यं द्रव्याणां तु नपुंसकैः । भूलिका स्त्रीविनाशाय गृहनाशाय वेधनम् ॥ ३१ ॥ कीला वा सन्धिपालिर्वा मित्रनाशाय दुष्यति ।। नवे गृहे नवं दारु क्रियमाणमथो कृतम् ॥ ३२ ।। आयोज्यमानं युक्तं वा न्यूनसंवत्सरं स्थितम् । भज्यते देहनाशाय स्फुटत्य॑थ विभज्यते ।। ३३ ।। गृहं ब्राह्मणसात् कृत्वा रत्नैरालिख्य चापरम् । नवैवस्त्रैः परिच्छायं पुनर्भिद्यानि(?)कारयेत् ॥ ३४ ॥ दग्धे भिन्ने प्रचलिते विनते विद्युता हते । विरूढे दलिते सन्ने सर्वत्रौषधिभिः स्मृताः ॥ ३५ ॥ शान्तयो विविधं हुत्वा ब्राह्मणान् स्वस्ति वाच्य वा। स्थूणिका भज्यते यस्य कीर्तिस्तस्योपहन्यते ॥ ३६॥ चन्द्रमूर्यो यजेत् तत्र ततः शाम्यति पातकम् । तद्विधं वृक्षमानीय पुनस्तां प्रति कारयेत् ॥ ३७॥ एवं कृते सुखी स स्यात् कीर्तिश्चायुर्बुवा भवेत् । मल्लको भज्यते यस्य पौरुषं तस्य हन्यते ।। ३८ ॥ इष्टानभसनक्षत्रं(?) प्रायश्चित्तं समाचरेत् । तद्विधं वृक्षमानीय प्रति कुर्वीत मल्लकम् ।। ३९ ॥ एवं कृत्वा सुखी स स्याद बैलं चास्याभिवर्धते । पृष्ठवंशस्य भङ्गेन गृही बन्धमवाप्नुयात् ॥ ४० ॥
१. 'धिर्भगिना' क, 'भग्नि ह' ख. ग. पाठः । २. 'चू', ३. 'स्यान्यू' ख पाठः । ४. 'न्त्य', ५. 'ध भेद्यतितु कार', ६. 'कनै' ख. ग. पाठः । ७. 'भु' क, पाठः। ८. 'स्य तस्य पुरुषोऽपहन्य', ९. 'धनं चाख. ग. पाटः ।
"Aho Shrut Gyanam"