SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ शान्तिकर्मविधिर्नाम द्विचत्वारिंशोऽध्यायः । मधुकुम्भमरिष्टं च शेवालं च विधानवित । वाचयित्वा तु विप्रेन्द्रान् कृतपुण्याहमङ्गलान् ॥ ४ ॥ स्थापयेत् कर्णिकाः सर्वाः स्थपतिः प्रयतः शुचिः । एतेन विधिना कर्म चातुर्वर्ण्यस्य कारयेत् ॥ ५ ॥ कर्णिका रोपिता यत्र पुनरुत्पाट्य रोप्यते । न तन्निष्पद्यते वेश्म स्वामी चात्र विनश्यति ॥ ६ ॥ निखातं तु यदा दारुच्छिधते ताड्यते पुनः ।। तन्नाशो धनधान्यस्य स्वामिनश्चात्र सर्वथा ॥ ७॥ वल्लीनिपीडितं दारु प्रवेशे चेन्निखन्यते । आशीविषभयं घोरं तस्मिन्नुत्पातलक्षणम् ॥ ८ ॥ उत्थाने कर्णिका रक्ष्या सर्वसत्त्वाभिधर्षणात् । नवे कमेण्यशकुना मृगव्यालसरीसृपाः ॥ ९ ॥ कर्णिकामधिरोहन्ति दोषांस्तत्र वदेदमून् । कृतापीडां परिहृतां यद्यारोहन्ति वायसाः ॥ १० ॥ गृहिणस्तत् प्रवासः स्यादन्नं पानं च हीयते ।। मयुरे तद्गृहं राजा हरेत् पञ्चाब्दतः परम् ॥ ११ ॥ वराने जायते व्याधिः कोकिलैयब्दतः परम् । काकोलेस्त्रीणि वर्षाणि जायते सुमहद् भयम् ॥ १२ ॥ शुके स्युः कलहाधानि नच निष्पद्यते गृहम् ।। कुक्कुटेऽग्निभयं विद्याद राजतो वा महद् भयम् ॥ १३ ॥ सारिकायां तु दौःशील्यं स्त्रीणां गृहपतेस्तथा । संपेरूप(ततु)विघ्नेन गृहं निष्ठां न गच्छति ॥ १४ ॥ स्त्रीपुंसयोः कुलिङ्गे तु जायते पापकारिता । पारावते तु जायेते स्त्रीपुंसौ गुरुतल्पगों ॥ १५ ॥ विडाले तु कुलं दासैः सह रोगैर्निपीड्यते । ज्वलनो वा जलं वापि हस्ती वा हन्ति तद्गहम् ॥ १६ ॥ १. 'च'. २. 'वी' ख. ग. पाठः । ३. 'ज्यानि' ख. पाठः । ४. 'सर्प', ५. 'न' क. पाठः । "Aho Shrut Gyanam"|
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy