SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २२४ समराङ्गणसूत्रधारे भूरि नाच्छादनं दद्यान्न भिन्यात् तत्र चेष्टकाः । विषमस्थाः कुठारेणच्छित्वा ताः कल्पयेत् समाः ॥ २७ ॥ यथा नच स्पृशेत् मूत्रं विचिन्वीत तथा बुधः । कुड्ये च सादिमध्यान्ते देष्टिमेकां निपातयेत् ॥ २८ ॥ यदा सर्वपरिक्रान्तं तलं चोद्घाटितं भवेत् ।। तदा नैकत्र कुर्वीत पयायेण विचक्षणः ॥ २९ ॥ उद्घाटनं स्तराणां(?) तु यदीच्छेत सिद्धिमात्मनः । तत्र तत्र चयं कुर्याद् यदि संविद्धकं हितम् ॥ ३० ॥ दुर्वहं हि भवेत् तेन तस्मात् तत् परिवर्जयेत् । उपरिष्टात् समं पार्थे भुजं कुर्याद् विचक्षणः ॥ ३१ ॥ समन्तादं रुचकच्छिन्नश्चयो भित्तिषु पूजितः ।। तस्मात् प्रयत्नः कर्तव्यश्चयकर्मणि नित्यशः ॥ ३२ ॥ इति भाषितरूपितमाचरतश्चयकर्म यथाविधि शिल्पिकृतम् । भवतीह यशो भुवने विततं गृहभर्तुरपि प्रचुरो विभवः ।। ३३ ॥ . इति महाराजाधिराजश्रीभोज देवविरचिते समराङ्गण पूत्रधारापर नाम्नि वास्तुशास्त्रे चयविधिर्नामैकचत्वारिंशोऽध्यायः ॥ अथ शान्तिकर्मविधिनाम दिचत्वारिंशोऽध्यायः । इदानीमभिधास्यामो विधान शान्तिकर्मणः । यथावदिष्ट्वा दिक्पालान् हुत्वा शान्तीयथाक्रमम् ॥ १ ।। स्नपयेत् कर्णिका कुम्भैः सहिरण्यैर्विचक्षणः । सर्वगन्धानुलिप्सां च माल्यदामविभूषिताम् ॥२॥ कृतमाल्यानिवसिता(?) मूले च मधुलेपिताम् । दोषप्रशमनाथोय तां मूलेषु निखातयेत् ॥ ३॥ १. 'मा' ख. पाठः । २. 'द्विष्टमे', ३. 'योजये', स्व. ग. पाठः। ४. 'न' स्त्र, 'त' में. पाठः। ५. 'दुर्बलं हि', ६. 'भयं कु' ख, ग, पाठः । ७. 'दु+क' क, 'हूचक' ग. पाठः । ८. 'का' स्व. ग. पाठः । ९. 'स' क. पाठः । "Aho Shrut.Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy