SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २२३ चयविधि मैकचत्वारिंशोऽध्यायः । चयस्य तस्य दोषेण गृ(ह?ही)क्षीणः पलायते। चिन्वतो यदि संक्षिप्तमत्यर्थं तत्र जायते ।। १५ ॥ ब्रह्मसंज्ञं तदुद्दिष्टं तत्र राजभयं भवेत् । विस्तृतं यदि बाह्येषु संक्षिप्तं चैव मध्यतः ॥ १६ ॥ तनुमध्यं तदुद्दिष्टं तत्र विद्यात् क्षुधो भयम् ।। उच्छ्रितं यदि कर्णेषु परिहीणं च मध्यतः ॥ १७ ॥ निर्णत नाम तद विद्यात् तत्र चौरभयं भवेत् ।। कर्णेषु परिहीणं चेदुच्छ्रितं चापि मध्यतः ।। १८ ।। कूर्मोनतमिति ज्ञेयं सर्वदोषभयावहम् । विपमोन्नतकर्णेषु निर्दिशेद् द्रविगक्षयम् ॥ १९ ।। प्राज्यानपानं तद् विद्यात सभेषु विहितेषु च । इत्येते चीयमानस्य गुणदोषाः प्रकीर्तिताः ॥ २० ॥ तस्मात् सर्वप्रयत्नेन चयकर्म प्रयोजयेत् । उदकेन समं नीत्वा सम्यनिश्चय कारणम् ।। २१ ॥ त(त्रा?स्मा)दृते न चान्यत् स्यानिश्चयार्थ चयस्य च । तस्माजलेन वलयं गृह्णीयात् पूर्वमादृतः ॥ २२ ॥ ततः सुताडिते सूत्रे चयं कुर्याद् विचक्षणः । द्विगुणां क्षेत्रमानस्य रज्जुं कृत्वा तदन्तयोः ॥ २३ ॥ योऽसौ(?) कार्यों ततस्तस्यां पादोनक्षेत्रमानतः । दद्यानिरिञ्छनं कीलो क्षेत्रगर्भान्तगामिनौ ॥ २४ ॥ निधाया(याः?य)सकौ तस्याः प्रान्तस्थौ योजयेत् तयोः । निरञ्छनाभिकृष्टायां पादोनक्षेत्रसंमितम् ॥ २५ ॥ भुजगत्या भवेद रज्जुस्तस्यामिष्टानुमानतः । चिह्न दद्यात् स कर्णः स्यादेवं दोषान् प्रसाधयेत् ॥ २६ ॥ १. 'णे', २. 'वा तेषु', ३. 'न' क. ख. ग. पाठः । ४. 'या' ख. ग. पाठः । ५. 'र', ६. 'यामको', ७. 'हा' क. पाठः । ८. 'तः', ९. 'ग', ११, ख, ग, पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy