SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २२२ समराङ्गणसूत्रधारे असंभ्रान्तमसन्दिग्धमविनाश्यन्यबर्हितम् । अनुत्तममनुवृत्तमकुन्जं नच पीडितम् ॥ २॥ समानखण्डमृज्वन्तमन्तरङ्ग तथैव च । सुपार्श्व सन्धिसुश्लिष्टं सुप्रतिष्ठं सुसन्धि च ।। ३ ॥ अजिी चेति चेयस्य गुणा विंशतिरित्यमी।। एतेषां वैपरीत्येन दोषाणामपि विंशतिः ॥ ४ ॥ दक्षिणं तु यदा कुड्यं विचिनोति बहिर्मुखम् । तदा व्याधिभयं विद्यान्मृत्युदण्डं च निदिशेत् ।। ५ ।। पश्चिमं तु यदा कुड्यं विचिन्वन्ति बहिर्मुखम् । धनहानि तदा विद्याद् दस्युभ्येश्च भयं भवेत् ॥ ६ ॥ उत्तरं तु यदा कुड्यं विचिनोति वहिर्मुखम् । कारं स्वामिनं वापि व्यसनं प्रापयेत् तदा ॥ ७ ॥ प्राच्यं वहिर्मुखं कुड्यं चिनोति स्थपतियंदा । राजदण्डभयं तत्र निर्देष्टव्यं विचक्षणैः ॥ ८ ॥ एतदेव फलं ब्रूयात् पतिते दलिते तां । यस्य प्रारदक्षिणः कर्णः प्रवर्तेत वहिर्मुखः ॥ ९॥ स्यात् तत्राग्निभयं घोरं गृहभर्तुश्च संशयः । गच्छेद बहिर्मुखः कर्णो यदा दक्षिणपश्चिमः ॥१०॥ कलहोपद्रवस्तत्र स्याद् भार्यायाश्च संशयः । पश्चिमोत्तरकर्णे तु सम्प्रयाते बहिर्मुखे ॥ ११ ॥ पशुवाहनपुत्राणां संशयस्तत्र जायते । प्रागुत्तरो यदा कर्णः प्रचीयेत बहिर्मुखः ॥ १२ ॥ गुरूणां संशयस्तत्र गोपादेश्च जायते । विशालं यदि जायेत सर्वबाहुषु चिन्वतः॥ १३ ॥ कर्णिकासमसंस्थानं तद् भवेन्मल्लिकाकृति । न तादृशो भवेदायस्तत्र यादृग् व्ययो भवेत् ।। १४ ।। १. 'श्यं च ग ख, 'शं च ग' ग. पाठः । २. 'मत्तम' ख, ग, पादः । ३. 'पु', ४. 'नि', ५. 'मि', ६. 'दा', ७. 'य' क. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy