SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ चयविधि मैकचत्वारिंशोऽध्यायः। २२१ तुल्यानि कुर्यादुपरि कृता वृद्धिकराः सुराः । पुरमध्ये तु कर्तव्यं ब्रह्मणो गृहमुत्तमम् ॥ ७॥ चतुर्मुखं च तत् कार्य यथा पश्यति तत् पुरम् । अधिकं सवेवेश्मभ्यस्तथा राजगृहादपि ॥ ८ ॥ राजवेश्माधिकमपि शस्यतेऽन्यसुरालयात् । पञ्चमो लोकपालनां राजा श्रेष्ठतमो यतः ॥९॥ एवमेतानि देवानां पीठान्युक्तान्यशेषतः । चातुवण्यस्य पीठानि ब्रूमो विप्राद्यनुक्रमात् ॥१०॥ पत्रिंशदङ्गुलोत्से, पीठं विप्रस्य शस्यते । इतरेषां तु वर्णानां ह्रस्वं स्याच्चतुरङ्गुलम् ॥ ११ ॥ चातुर्वर्ण्यस्य पीठानि भुङ्क्ते विप्रो गृहाणि च । प्रयाणां क्षत्रियो वैश्यो द्वयोः शूद्रः क्रमात् स्वकम् ॥१२॥ एवं विभागं पीठानां स्थपतिः परिकल्पयेत् । हितं कारयितुर्वाञ्छन् नृपतेश्च समृद्धये ॥ १३ ॥ प्रमाणे स्थापिता देवाः पूजाहीश्च भवन्ति हि । प्रमाणं पीठानामिदमभिहितं ब्रह्ममुरजिपुरारीणामत्रापरदिविषदां यच नियतम् । ततो विप्रादीनामपि निगदितं यत् तदखिलं यथौचित्यायोज्यं श्रियमभिलपद्भिः स्थपतिभिः ॥१४॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे पीठमानं नाम चत्वारिंशोऽध्यायः ।। अथ चयविधिर्नामेकचत्वारिंशोऽध्यायः। इदानीमभिधीयन्ते चयस्येह गुणागुणाः । सुविभक्तः समश्चारुश्चतुरश्रश्चयः शुभः ॥१॥ १. 'सु पी', २. 'णामन्यजातीनां गृहं शूद्रकमाशकम्', ३. 'यद्यो', ४, 'त्याद्योज्यं' ख, ग, पाठः। ५. 'शुभश्चयः।' क. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy