SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २१८ समराङ्गणसूत्रधारे पदस्य द्वादशे भागे पदमध्यात् प्रदक्षिणम् । स्थापितं वृद्धिमायाति द्वारं पुष्टिं करोति च ॥ ३८ ॥ रथ्याचत्वरशृङ्गाटवापीकूपाह(१)कुम्भकैः । कुड्यकोणतरुस्तम्भभवनस्यन्दनादिभिः ॥ ३९ ॥ यद् विद्धं भवनद्वारं तच्छुभाय न जायते । द्वारं द्वारे प्रविष्टं च कर्तव्यं वितनेतन(?) ॥ ४० ॥ पैद्यां प्रवेशयेन्नैकामन्यद्वारे कदाचन । द्वारं प्रवेशयेत् पेद्यां नारोहणगवाक्षयोः ॥ ४१ ॥ . पक्षद्वारस्य वा नैकां कथञ्चिदपि बुद्धिमान् ।। न बाह्यगान्तरे द्वारे प्रविष्टं कारयेत् कचित् ॥ ४२ ॥ विहितं हि तथा तत् स्याद् वहुदोषकरं सदा । तोरणं गोपुरद्वारमट्टो येषां गृहे भवेत् ॥ ४३ ।। गृहाणां मौलिकद्वारं श्रोत्रे चैतान प्रवेशयेत् । द्वारं द्वारस्य कर्तव्यमुपर्युपरि भूमिपु ॥ ४४ ॥ प्रदक्षिणेन वा कार्य कार्य नापरथा पुनः ॥ ४५ ॥ उपर्युपरिभूमीनां मुखं कुर्यात् प्रदक्षिणम् । नापसव्येन कुर्वीत द्वारमारोहणानि च ॥ ४६ ॥ यस्यां भित्तौ कृतं पूर्व तस्यामुपरि कारयेत् । तथान्यभित्तौ तदद्वारं विधातव्यं प्रदक्षिणम् ॥ ४७ ॥ न मध्ये सद्मनो द्वारं कुर्यादेव पदस्य च । न स्थूले(?) न पदे नापि सिरापाते तदिष्यते ॥ ४८ ॥ निरंशावस्थितैर्द्रव्यस्तियन(काका)न्तैश्च मन्दिरे । ममवेधो न दोषाय द्वारवेधोऽथवा कचित् ।। ४९ ॥ यवनाट्टालकच्छाया पुरंदैवकुलस्य च । न प्रवेश्या गृहद्वारे रश्मयः सोमसूर्ययोः ॥ ५० ॥ १. 'नो' ख. ग. पाठः । २. 'ऐन्यां प्र ग. 3: ! ३. नै', ४. 'रं पट्टो' ख. ग. पाठः । ५. 'य', ६. 'हा' ग. पालः। 3. 'रा दे ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy