SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः। २१७ आहर्तानेकयज्ञानां राजा राजाधिपश्च यः । तस्याप्यर्धाष्टमतलं भवनं सनिवेशयेत् ॥ २६ ॥ वाजोयेन वा यष्टा यो द्विजः स्यात् समाहितः । गवां कोटिप्रदो यो वा सोऽपि तस्मिन् भवे(युदभीः ॥ २७ ॥ यथाप्रमाणनिर्दिष्टे वसन्तस्ते नृपादयः । प्राप्नुवन्ति परामृद्धिमवृद्धिं तु विपर्यये ।। २८ ॥ सपीठतलकं वेश्म मानतः संप्रकीर्तितम् । साधारणेन हस्तेन परं शूद्रस्य विंशतिः ॥ २९ ॥ चत्वारिंशद् विशः षष्टिः क्षत्रियस्य प्रशस्यते। अशीतिर्द्विजमुख्यस्य शतहस्ता महीपतेः ॥ ३० ॥ नातः परं नृणामूर्ध्वप्रमाणं शस्तगुच्यते। देवदानवदैत्यानां पिशाचोरगरक्षसाम् ॥ ३१ ॥ सिद्धगन्धर्वयक्षाणां विधातव्यमतोऽधिकम् ।। एकभौमादधो नैव गृहं शूद्रस्य विद्यते ॥ ३२ ॥ वैश्यस्य भवनं कार्यमधो ना(न्यौथ्य)धभूमिकात् । द्विभूमिकादधः कार्य क्षत्रियस्य न मन्दिरम् ।। ३३ ॥ सार्धद्विभौमाद विमस्य त्रितलादपि भूपतेः । हीनप्रमाणादमुतो गृहं यत् कुशिल्पिना स्याद् विहितं कथञ्चित् । भर्तुर्भिये सिद्धिविनाशनं तत् प्रशस्तीलादिविपर्ययाय ॥ ३४ ॥ गुणदोषान् प्रवक्ष्यामि द्वाराणां सर्ववास्तुषु । सुस्थितं चतुरश्रं च कान्तं स्वद्रव्ययोजितम् ॥ ३५ ॥ ऋजु स्वकीयदिग्भागे नहूस्वं नतथोच्चकैः । नाल्पं नकुब्जं नाप्यनि(१)पिण्डितं नवहिर्गतम् ॥ ३६ ।। नाध्मातं नकृशं मध्ये गतं नान्तरकुक्षिषु ।। नविद्रुतं नसंक्षिप्तं यत् तत् स्याद् द्वारमृद्धिदम् ॥ ३७॥ १. 'टिःप्रदेया वा', २. 'भवेदुभी।', ३. 'तिर्द्वयम्', ४. 'द्वित्रिवि' (१), ५. 'जू', ६. 'स्वे' ख, ग, पाउः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy