SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे यत्र प्रवेशतो वास्तु(?)गृहं भवति वामतः तद्धीनबाहुकं वास्तु निन्दितं वास्तुचिन्तकः ॥ १३ ॥ तस्मिन् वसन्नल्पवित्तः स्वल्पमित्रोऽल्पवान्धवः । स्वीजितश्च भवेन्नित्यं विविधव्याधिपीडितः ।। १४ ॥ वास्तुप्रवेशतो यत् तु गृहं दक्षिणतो भवेत् । प्रदक्षिणप्रवेशत्वात् तद विद्यात् पूर्णवाहुकम् ।। १५ ।। तत्र पुत्रांश्च पौत्रांश्च धनधान्यसुखानि च । प्राप्नुवन्ति नरा निलं वसन्तो वास्तुनि ध्रुवम् ॥ १६ ॥ गृहपृष्ठं समाश्रित्य वास्तुद्वारं यदा भवेत् । प्रत्यक्षायस्त्वसौ निन्द्यो वामावर्तप्रवेशवत् ॥ १७ ॥ ब्राह्मणो निवसेन्मुख्ये द्विनाम्नि क्षत्रियो वसेत् । वितथे निवसेद वैश्यः शूद्रः सुग्रीवनामनि ।। १८ ।। एते वैशेषिकाः सर्वे वर्णानामनुपूर्वशः । वास्तुद्वारनिवेशाश्च वासैः सह निरूपिताः ॥ १९ ।। यथोत्तरमथोच्यन्ते वर्णानां गृहकल्पनाः । 'शूद्रविद्रक्षत्रियाणां च राज्ञां च जयकाक्षिणाम् ॥ २० ॥ सार्धत्रिभूमि शूद्राणां वेश्म कुर्याद विभूतये । अतोऽधिकतरं यत् स्यात् तत् करोति कुलक्षयम् ॥ २१ ॥ वैश्यस्य वर्धयेद गेहमपञ्चमभूमिकम् । अतिप्रमाणे लत्रास्य धनवन्धुपरिक्षयः ॥ २२ ॥ क्षत्रियस्य हं कुर्यादर्धषष्ठतलं परम् । सम्पदलसमृद्धये तदतिरिक्तं तु तच्छिदे ॥ २३ ॥ परं विप्रस्य भवनमर्धसप्तमभूमिकम् । स्वाध्यायाचारभोगार्थमत्युचं तु भयावहम् ॥ २४ ॥ यजन्ते राजसूयायैः क्रतुभिर्येऽवनीश्वराः । तलैरर्धाष्टमैस्तेषां कारयेद् भवनोत्तमम् ।। २५ ॥ १. 'शि' २. 'ई', ३. 'द्रेण वे' ख. ग. पाटः । 'शूद्रविटक्षत्रावप्राणां राज्ञाम् ' इति पाठः स्यात् । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy