________________
द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः २१५ अथ द्वारगुणदोषो नामैकोनचत्वारिंशोऽध्यायः।
गृहाण्युक्तानि सर्वेषामेवं कर्मोपजीविनाम् । वर्णिनां च गृहस्थानां कथ्यन्तेऽतः परं यथा ॥ १ ॥ भल्लाटे धनदे यद्वा चरके पृथिवीधरे । ब्राह्मणस्य भवेद वेश्म माहेन्द्रद्वारमुत्तमम् ॥ २॥ माहेन्द्रेऽ।ऽथ सत्ये वा आर्यके' वा निकेतनम् । कार्य गृहक्षतद्वारं क्षत्रियस्य शुभावहम् ॥ ३॥ याम्ये वैवस्वते वापि गान्धर्वेऽथ गृहक्षते । वैश्यस्य भवनं कार्य द्वारं पुष्पाहये शुभम् ॥ ४ ॥ वारुणे पौष्पदन्ते वा यद्वा मैत्रेऽथवासुरे । शूद्रस्य सदनं काये भल्लादद्वारमुत्तमम् ॥ ५॥ विप्राणां प्राङ्मुखं वास्तु गृहं स्याद् दक्षिणामुखम् । वर्धते धनधान्येन पुत्रपौत्रैश्च नित्यशः ॥ ६ ॥ दक्षिणाभिमुखं वास्तु भवनं पश्चिमामुखम् । क्षत्रियस्य धनं धान्यं विक्रमश्चेह वर्धते ।। ७ ॥ वास्तुनः पश्चिमं द्वारं भवनस्योत्तरामुखम् । तत्रैधते धनैर्धान्यैः पुत्रपश्वादिभिश्च विट् ॥ ८ ॥ वास्तु स्यादुत्तरद्वारं गृहं पूर्वामुखं तथा । शूदस्य कर्मवृत्तिस्तु धनधान्यैर्विवर्धते ॥९॥ एकस्यामपि शालायां चत्वारः संप्रकीर्तिताः। निवेश्येद्वारभागाश्च कथ्यन्ते च शुभाशुभाः॥ १० ॥ उत्सङ्गो हीनबाहुश्च पूर्णबाहुस्तथापरः । प्रत्यक्षायश्चतुर्थश्च निवेशः परिकीर्तितः ॥ ११ ॥ उत्सङ्ग + एवदीक्षाभ्यां(?) द्वाराणां वास्तुवेश्मनोः । स सौभाग्यप्रजाद्धिधनधान्यजयप्रदः ॥ १२ ॥ १. 'स्ते' ख, ग. पाठः । २. 'श्यगृहद्वाराश्च', ३. 'क्षो' ख, पाठः । "एकदिकाभ्यां द्वाराभ्याम् । इति पाठः स्यात् ।
"Aho Shrut Gyanam"