________________
२१.
समराङ्गणसूत्रधारे सदंशे सोचिका वाजिपोषका व्यजनोपमे । तक्षाणश्च शरावामे स्वस्तिके वन्दिमागधाः ॥ १३ ॥ पणवाभे मृदङ्गाभे वेणुतूर्यादिवादकाः । विशर्करे तु रथिनः कबन्धप्रतिमे पुनः ॥ १४ ॥ नीचाः श्वपाकाश्च यवप्रतिमे धान्यजीविनः । उत्सङ्गे श्रमणा हस्त्यारोहिणो (राग)जदन्तके ॥ १५ ॥ परशुपति क्षेत्रे बन्धनागारिणो जनाः । विस्राविणि सुराकाराः श्वभ्राभे कर्मकारिणः ॥ १६ ॥ युगले नापिताः स्वाविवाहव्ये(?)कोशरक्षिणः । त्रिकुष्टे पञ्चकुष्टे च वसेयुर्वह्निजीविनः ॥ १७ ॥ समन्ततः परिच्छन्ने सर्वे मानोपजीविनः । दिस्वस्तिके तु चैत्यानि कुर्याद् वासांच सर्वशः ॥ १८ ॥ श्रीवृक्षप्रतिमे वृक्षान् यज्ञवाटांश्च कारयेत् । वर्धमानाकृतिमुखेऽप्येतानेव प्रकल्पयेत् ॥ १९ ॥ एणीपदे तु गणिकाचौरान् नरपदोपमे । इत्युक्ताः शुभदा वासाः सर्वकर्मोपजीविनाम् ॥२०॥ कर्मोपजीविजनवासनिमित्तमेताः क्षेत्राकृतीरभिहिताः प्रविमृश्य तेषाम् । वेश्मानि कारयति यः स्थपतियथावन्मान्यः स कस्य न भवेदिह भूमिपृष्ठे ॥ २१ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे
वास्तुसंस्था(प?)नमातृकानामाष्टात्रिंशोऽध्यायः॥
१. 'क्षणाश्च', २. 'भे' ख. ग. पाठः। ३. ' स्वाधि वा' ग. पाठः।
परिच्छिन्नमिति लक्ष्ये पठितम् ।
"Aho Shrut Gyanam"