SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः । २११ ऐन्द्री प्रतिनतः कीलो धनसम्मानकारकः । आग्नेय्यां प्रणते कीले भवत्यग्निभयं महत् ।। ५८ ॥ याम्यायां मरणं राज्ञां दिशि राक्षसतो भयम् । धननाशस्तु वारुण्यां वायव्यां रोगतो भयम् ।। ५९ ॥ सौम्यं सौम्यानते राजप्रसादायेशतो गतः । कीलके कूर्चके जाते पुत्रपौत्रान्वयगृहे ।। ६० ।। परमामृद्धिमाप्नोति धनधान्यैश्च वर्धते । हन्यमानो यदा यत्नात् कीलः कश्चिदपि स्फुटेत् ॥ ६१॥ नाशं विद्यात् तस्य पल्ल्या ज्येष्ठस्य तनयस्य वा ।। यदि भज्येत कीलः स्वात् स्वामिनो जायते वधः ॥ ६२ ॥ यदा कीलः पतेद्धस्ताद भ्रंशः स्यात् स्थपतेस्तदा । हस्तभ्रष्टच(?) स भवेदष्ठीले हस्तविच्युते ।। ६३ ।। सुखेन हन्यमानश्चेत् कीलः स्वस्थो न जायते । अष्टौ प्रहारानपरांस्तस्य दद्यात् तदा पुनः॥ ६४ ॥ स्रग्गन्धधूपोपहारैः कुर्याच्च परिषेचनम् । इदं साम महापुण्यं परिचिन्त्य समासतः ॥६५॥ त्रैशोकं तु जपेद विद्वान् यावच्छङ्कभिषेचनम् । गत्वाथ नैतीमाशां ततः शकुं निवेशयेत् ॥६६॥ ऊर्णायवेन साम्नास्य सम्यक् स्नपनमाचरेत् । वायोर्दिशं ततो गत्वा तत्र शकुं निवेशयेत् ।। ६७ ।। . अभिषेकं महारत्नसाम्ना तस्य समाचरेत् । अर्थशानी दिशं गत्वा शकुं तस्यां निवेशयेत् ॥ ६८ !! भाग्रेण साम्ना कुर्वीत प्राग्वत् तस्याभिषेचनम् । ततोऽनु मूत्रं बनीयात् सव्यं द्विगुणवेष्टितम् ॥ ६९ ॥ प्रदक्षिणं प्रसायैतदुक्तः शकुक्रमो यथा। (मब)ध्यमानं यदा सूत्रं शङ्कुः किमपि मुञ्चति ॥ ७० ॥ ----- -- --- -- १.'च गते' ख. ग. पाटः । २. 'च' ख. गठः। ३, 'लस्यात्', ४. 'स्य', ५. 'लतुस्यो', ६. 'वर्त्य स' क. पाठः । ७. 'यवेशन' क, 'ययेन' ख. पाठः। ८. 'प्राग्वत् (स्नानं समाच' क. पाठः । ९. 'कु' ख, ना, पाठः । "Aho Shrut Gyanam
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy