________________
समराङ्गणसूत्रधारे अक्षतान् प्रथमं कुम्भे दापयित्वा द्विजोत्तमैः। ततो दक्षिणपूर्वेण गत्वा पुण्याहवाचकैः ॥ ४५ ॥ अहताम्बरसंवीतः शुचिः स्थपतिरासने । निषद्य प्राङ्मुखः शंकुं धृत्वा दक्षिणपाणिना ॥ ४६॥ पश्चादादाय वामेन प्रतिष्ठाप्य च भूतले । मन्त्रानमू जपन् वीरो हन्यात् परशुना ततः ॥ ४७॥ विशन्तु ते तलं नागा लोकपालास्तथैव च । प्रतिष्ठन्तु गृहं चास्मिन्नायुबलकरं भवेत् ॥ ४८ ॥ प्रहारान् सुस्थिरानष्टौ दद्यात कीलस्य मूर्धनि । हन्यमाने ततः कीले निमित्तान्युपलक्षयेत् ।। ४९ ।। गोविप्ररथनागाढ्याः कन्या नृपवरॅस्त्रियः । शङ्खदुन्दुभिवंशानां तथा गीतस्य च ध्वनिः ॥ ५० ॥ आविर्भवति यद्यस्मिन् हन्यमाने प्रभुस्तदा । सततं सुखमामोति शान्त्यैश्वर्यैश्च वर्धते ॥ ५१ ॥ हतं तं विपन्नं वा निषेधः सूत्रकीलयोः। पाषण्डिनां च सर्वेषां दर्शनं न सुखावहम् ॥ ५२ ॥ दृष्ट्वा शुभनिमित्तानि ततः शकुं निवेशयेत् । हन्यमानो यदा कीलो विशेद भूमौ शनैः शनैः ।। ५३ ।। कर्मसिद्धिर्भवेत् तत्र गृहं रत्नपरिच्छदम् । हन्यमानोऽपि न विशेद् धरित्री कीलको यदा ॥ ५४ ॥ न तत्र कर्मसिद्धिः स्यादनिमित्तं च लक्षयेत् । एकेनापि प्रहारेण यत्र कीलो विशेन्महीम् ॥ ५५ ॥ ने सिद्धिं याति तत्रौकः कृतं वा नोपभुज्यते । आयस्याष्ठीलया हन्यान काष्ठेन कथञ्चन ॥ ५६ ॥ काष्ठेन ताडितः कीलो वह्निदोषकरो भवेत् ।
अश्मना यदि ताड्येत तदा व्याधि प्रयच्छति ॥ ५७ ॥ १. 'कुम्भं' क. पाठः । २. 'ज्व' ख., 'ज्ञ' ग. पाठः। ३. 'र:' क. पारः। ४. 'शान्तैश्व' क, शान्त्यर्थेश्च', ख, ग. पाठः । ५. 'स' ख, ग, पाठः।
"Aho Shrut Gyanam"