SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः । न्यग्रोधो वणिजां धाम्नि भूमिकर्मण्युदुम्बरः । महामा(?) वैद्यानां कीलाः सर्जार्जुना गृहे ॥ ७ ॥ विप्राणां सर्ववर्णोत्थाः क्षत्रियाणां त्रिवर्णजाः । वर्णद्वयोक्ता वैश्यानां शूद्राणां स्वानुलोमतः ॥ ८ ॥ प्रतिलोमा न कर्तव्याः कीलका भूतिमिच्छता । प्रमाणान्यथ कीलानां निगद्यन्ते पृथक् पृथक् ।। ९ ।। द्वात्रिंशदङ्गुलाः कीला विप्राणां स्युः शुभावहाः । क्षत्रियाणां पुनश्चाष्टाविंशत्य गुलसम्मिताः ॥ १० ॥ चतुर्विंशत्यगुलाच वैश्यानां शुभदायिनः | विंशत्याद्यङ्गुलैः कीलाः शूद्रजातेस्तु ते हिताः ॥ ११ ॥ षडङ्गुलपरीणाहाः सर्वेष्वेते शुभावहाः । ब्राह्मणक्षत्रियविशां वेदाष्टाश्रषश्रयः ।। १२ । पडश्रयस्तु शूद्रस्य प्रकृतेस्तु यदृच्छया । दार्भमौर्णकार्पासं विप्रादीनां यथाक्रमम् ॥ १३ ॥ अर्धपर्वपरीणाहं दृढं सूत्रं तु वर्तितम् । अलाभे स्वस्य सूत्रस्य प्रोक्तादन्यतमं बुधः ॥ १४ ॥ गृह्णीयात् सूत्रमन्ये तु गृहणीयुः स्वेच्छयैव ते । इत्थं संभृत्य सम्भारान् गृहभर्ता शुभेऽहनि ।। १५ ।। शुक्लपक्षे शुचिः स्नातः स्थपतिश्च सिताम्बरः । गृहस्थानेनिमित्तत् तु देवस्थानानि लक्षयेत् ॥ १६ ॥ कुसुमाक्षतमय्यैश्च कर्तव्या गृहदेवताः । आदौ स्थानानि शकूनां परीक्षेत समन्ततः ॥ १७ ॥ तेषु सर्वेषु कर्तव्यमर्चनं तु यथाविधि । गृहस्य मध्ये सिक्त्वा तु निरूप्य ब्रह्मणः पदे ॥ १८ ॥ गोमयेन समालिप्तां कुर्याद् वेदीं सुलक्षणाम् । चतुरश्रां चतुर्द्वारामक्षतैः सुप्रतिष्ठिताम् ॥ १९ ॥ 1. 'स्वविविद्यानां ख., 'स्ववैविद्यानां ग पाठः । ३. ' क्षिपेस्तु', ४. 'ना', ५. 'त्ता तु', ६. 'व्यश्वक' ख. ग. पाठः । " Aho Shrut Gyanam" ८ २०७ २. दशास्त्रप 7
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy