SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे सर्वपुष्पफलैश्चैषां कार्य बुद्धिमता सदा । इत्येते बलयः सर्वे शान्त्यर्थं परिकल्पिताः ॥ २६ ॥ शोधने कर्षणे भूमेः साधने रूपकल्पने । गृहे प्रवेशने रम्ये तिथिमभ्युदयेषु च(?) ॥ २७ ॥ स्कन्धावारनिवेशेषु पुरग्रामनिवेशने । देवालयक्षितिपवेश्मनिवेशनेषु प्रोक्तान् बलीन प्रवितरेत प्रयतः सुरेभ्यः । प्रारम्भमन्यमपि वास्तुगतं चिकीर्षुः कुर्वनिमं विधिमभीप्सितभाजनं स्यात् ।। २८॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे बलिदानविधिनाम पत्रिंशोऽध्यायः ॥ अथ कीलकसूत्रपातो नाम सप्तत्रिंशोऽध्यायः। वर्णानां यानि दारूणि कीलकार्थ नियोजयेत् । इदानीं तानि वक्ष्यामि श्रेयःकीर्तिहिताय च ।। १ ।। खदिरोदुम्बराश्वत्थशालशाकधवार्जुनाः । अञ्जनः कदराशोकतिनिशारुणचन्दनाः ॥ २ ॥ शिरीषसर्जन्यग्रोधवेणवः कीलकर्मणि । पुन्नामानो द्रुमाः शस्ताः स्त्रीनामानो विगर्हिताः ॥३॥ अश्वत्थः खदिरश्चैतौ विप्राणां वृद्धिकारको । रक्तचन्दनवेणूत्थकीलो क्षत्रस्य पूजितो ।। ४ ।। शाकच खदिरश्चेति सामन्तानां हिताविमौ । कीलौ शालशिरीपोत्यौ वैश्यानां कीर्तितौ शुभौ ।। ५ ।। शूद्रजातस्तु तिनिशधवार्जुनसमुद्भवाः ।। वैश्यवेश्मसु सौभाग्यकार्ये च स्युरशोकजाः ॥ ६ ॥ 1. 'न' क. पाठः । २. 'राश्च ते', ३. 'ल', ४. 'त:' ख. पाठः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy