SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २०५ बलिदानविधिर्नाम षट्त्रिंशोऽध्यायः । मत्स्यमांसयुतैर्भव्यैर्यमतुष्टिः सदा भवेत् । पुन्नागागरुधुपेन गन्धवोनचेयेद बुधः ॥ १३ ॥ मृगमांसयुतैर्भक्षैभृङ्गराजं च तर्पयेत् । राजजम्बूफलविल्वैर्देवमभ्यर्चयेन्मृगम् ॥ १४ ॥ पायसैमधुसंयुक्तैर्मासर्भक्तैश्च शोभनैः । कर्पूरसुरभिद्रव्यगर्भः संपूजयेत् पितॄन् ॥ १५ ॥ सपुष्पर्मोदकैलाजैः पललेश्च विमिश्रितैः । दौवारिकं प्रयत्नेन पूजयेद् विघ्नकारकम् ॥ १६ ॥ अपूर्वः शोभनैर्गन्धैधूपैर्माल्यैरनुत्तमैः । पुष्पैः कण्टकजातीनां सुग्रीवं पूजयेत् सदा ॥ १७ ॥ सपुष्पा (पं?ज)कैर्भक्ष्यर्दधियुक्तानपायसः ।। अर्चयेत् पुष्पदन्तं तु यशोवीर्यान्वितं सुरम् ।। १८ ।। मांसैश्च सूकरादीनां वैनतेयं सदार्चयेत् । वरुणं च महासत्त्वं पूजयेद् धूपचन्दनः ।। १९ ।। राहुं च मांससंयुक्तैस्तर्पयेद् भक्ष्यभोजनैः । रुधिरेण प्रदत्तेन तुष्टिमेति शनेश्वरः ॥ २० ॥ मांसेन तु क्षयस्तुष्टिं रोगाणामधिपो व्रजेत् । मेदसा पूजयेद् रोगं सर्वलोकभयङ्करम् ॥ २१ ॥ वासुकि क्षीरदानेन पूजयेत् सततं नरः । पूर्ववत् पूजयेद् देवं विश्वकर्माणमीश्वरम् ॥ २२ ॥ सितप्रमूनविन्यासभेल्लाटं पूजयेद बुधः । दधियुक्तेन चान्नेन सोमं सर्वत्र पूजयेत् ॥ २३ ॥ कुवेरं धूपदानेन पूजयेत् सततं नरः । अदितिं च सुवर्णेन पौरपि च पूजयेत् ॥ २४ ॥ अर्कमन्दारमालाभिषभं च समर्चयेत् । अन्येषामपि देवानामर्चनं धूपसाम्प्रतैः(१) ॥ २५ ॥ १. 'पुप्पैर्लोप' ख, ग. पाठः । २. 'घ' क. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy