SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २०४ समराङ्गणसूत्रधारे अथ वलिदानविधिर्नाम षट्त्रिंशोऽध्यायः । इदानीमभिधास्यामो बलिरूपविधेः क्रमम् । येन येनार्चिता देवास्तुष्यन्ति समहेश्वराः ॥१॥ मण्डलं वास्तुनो मध्ये गोमयेन प्रकल्पयेत् । कलशं तत्र विन्यस्येत् सप्रसून सकाञ्चनम् ॥ २ ॥ वास्तुदेवास्ततः कल्प्या यथास्थाननियोगतः । सधूपैर्विविधैर्माल्यैरयं पश्वानिवेदयेत् ॥ ३ ॥ अर्चयेद् विश्वकर्माणं माल्यै पविलेपनैः । भक्षैः फलैबहुविधैः पूजयेत् सुसमाहितः ॥ ४ ॥ आज्येन पयसा दना पूजयेच्छिखिनं पुनः । शालिगोधूममुद्गाद्यैर्धान्यैः पय॑न्यमर्चयेत् ॥ ५ ॥ जयन्तं पूजयेदाम्रद्राक्षाखजूरिकादिभिः । मालतीमल्लिकाभिश्च पूजयेत् त्रिदशाधिपम् ॥ ६ ॥ पुष्पै रक्तैस्तथा धूपै रक्तचन्दनलेपनैः । ततः सूर्य जगन्नाथं पूजयेल्लोकचक्षुपम् ॥ ७ ॥ जम्बीरैर्वीजपूरैश्च नारङ्गैः पीतकैः फलैः । पूजयेत् सत्यनामानं देवं तेन स तुष्यति ॥ ८ ॥ मत्स्यमांसैश्च तुष्यन्ति सर्वे रक्षःपुरोगमाः । सितैः फलैर्नारिकेलै शथ परितुष्यति ॥ ९ ॥ गन्धधूपप्रयोगैश्च नभोनामानमर्चयेत । पुष्पैः सुगन्धिभिः शुक्लारुतः पारतुष्यति ॥ १० ॥ कुसरं मधुसंयुक्तं पूष्णे भक्त्या निवेदयेत् । वितथं तु शुभैरन्यैर्मद्यमांसविवर्जितैः ॥११॥ पूजितस्तुष्टिमायाति विवस्वाच महामुनिः । पुष्पः सपुष्पकैस्तुष्टिमवामोति गृहक्षतः ॥ १२ ॥ १. 'यै विता', २. 'सर्व' ख. ग. पाठः । ३. 'म' क. पारः। "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy