SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २०२ समराङ्गणसूत्रधारे तासां चतसृणामन्याः कुर्यादुपशिलाः पृथक् । प्राकारस्वस्तिका द्वे तथा श्रीवत्सलक्षणा ॥ २६ ॥ नन्द्यावर्तस्तु पूर्णायां भवे (देको दङ्को) यथाक्रमम् । कर्णे प्राग्दक्षिणे नन्दां वास्तुनः स्थापयेदः ॥ २७ ॥ अन्याः क्रमेण भद्राद्याः कोणेष्वन्येषु च त्रिषु । प्रतिष्ठापन मन्त्राच तासां चतसृणामपि ॥ २८ ॥ चत्वार ऋषिभिर्गीताः शाश्वतारम्भदर्शनाः । aणादिवराहस्य वेदार्थैस्त्वाभिमन्त्रिताः ? ताम् ) || २९ ॥ सिनन्दिनी नन्दां प्राक् प्रतिष्ठापयाम्यहम् | सुमुहूर्ते सुदिवसे सा त्वं नन्दे ! निवेशिता ॥ ३० ॥ आयुः कारयितुदीर्घं श्रियं चायामिहावह | भद्रासि सर्वतोभद्रा भद्रे ! भद्रं विधीयताम् ॥ ३१ ॥ arrrrr प्रियसुते ! श्रीरस्तु गृहमेविनः । जये ! विजयतां स्वामी गृहस्यास्य महात्मनः ॥ ३२ ॥ आचन्द्रार्क यशश्रास्यं भूम्यामिह विरोहतु । त्वयि सम्पूर्णचन्द्रामे ! न्यस्तायां वास्तुनस्तले ॥ ३३ ॥ भवत्येष गृहस्वामी पूर्णे ! पूर्णमनोरथः । इति' मूलचं (यो?यं) मन्त्रैः कुर्यात् स्वस्तिकवाचनैः || ३४ ॥ ताभिर्हिरण्यवर्णाभिः शिलाभिः सममद्भुतम् । प्रागुदक्प्लवना धन्या न प्रत्यग्दक्षिणावा ॥ ३५ ॥ इष्टकाञ्चैत्यभवनप्राकारपुरकर्मसु । विताने चितिविन्यासे चतुर्मुखनिकेतने || ३६ || पुरोधाः शान्तिवेदीषु प्रतिमास्थापनेषु च । याज्ञिकेन विधानेन क्रमशः स्थापयेच्छिलाः ॥ ३७ ॥ १. 'रं च स्व', २. ' ज्ञेया श्री', ३. 'थ' ग. पाठ: । ४. डुं 3 ५. 'स्यां', ६. 'में' क. पाठ: । ७. 'भ' ख. ग. पाठः । ८. 'भिः सशिलाभिः समं द्रुतम् ', ९. 'के', क. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy