________________
शिलान्यासविधिर्नाम पश्चत्रिंशोऽध्यायः । नैर्ऋत्यां वा सकुसुमां समां गोचर्मसम्मिताम् । वेदी सगन्धकलशां चतुरश्रां प्रकल्पयेत् ॥ १३ ।। आग्नेय्यामादितो नन्दां स्थापयेत् क्रमशः शिलाम् । अकालमूलरव्यङ्गैः सपद्मोत्पलपल्लवैः ।। १४ ॥ सर्वोपधिहिरण्याथैहेमराजतमन्मयः । कुम्भैस्ताम्रमयैश्चापि मन्त्रैस्तामभिषेचयेत् ॥ १५ ॥ तीर्थप्रस्रवणाम्भोभिः सरनाक्षतपङ्कजैः । सुगन्धिभिः संपुण्याहमभिषेकं प्रयोजयेत् ॥ १६ ॥ जाह्नवीयमुनारेवासरस्वत्यादिसम्भवैःचम)। महानदीजलं शस्तं शुभतीर्थभवं तथा ॥ १७ ॥ तथाद्रिवनवेशन्तदेवायतनजानि च । अभिषेकार्थमम्भांसि यथालाभमुपाहरेत् ॥ १८ ॥ मन्त्रेणानेन चैतासामभिषेकं समाचरेत् । हिरण्यवर्णाः पार्वन्यः शुचयो दुरितच्छिदः ॥ १९ ।। पुनन्तु शान्ता:श्रीमत्य आपो युष्मान्मधुच्युतः। मन्त्रपूतेन पयसा स्त्रापयित्वा ततः शिलाम् ।। २० ॥ स्थपतिर्गन्धकल्केन मङ्गल्येनानुलेपयेत् । हिमचन्दनपूर्णेन व्यवकीर्य सुगन्धिना ॥ २१ ॥ तरसा छादयेदेनां सलाजैः पुष्पदामभिः । धूपमाल्योपहारैश्च दधिमांसाक्षतादिभिः ॥ २२ ॥ पूर्जयेदिष्टकां देवीं वस्त्रयुग्मैश्च पुष्कलैः । निवेशनान्ते नैऋत्यां तदा विमानवस्थितान् ॥ २३ ॥ समसङ्ख्याञ् शुचीन् प्राज्ञानचयेद् दक्षिणाफलैः । ओङ्कारस्वस्तिपुण्याहगीतवादितनिस्वनैः ॥ २४ ॥ कर्ता जनितरोमाञ्चस्तेभ्यः कुर्यान्नमस्क्रियाम् ।
निवेद्य वास्तोष्पतये भूतेभ्यश्च ततो वलिम् ॥ २५ ॥ ___.. 'सु' ग. पाठः। २. 'वमान्यः' क. पाठः । ३. 'चन्द्रेण पू' ख. ग. पाठः। ४, रग, पाठ:
"Aho Shrut Gyanam"