________________
समराङ्गणसूत्रधारे सुधाबन्धद्वैः कुड्यैः सप्राग्ग्रीवोच्चतोरणम् । चत्वार्यपि विशालानि सुगमानि च कारयेत् ॥ ७९ ॥ वेश्मस्वेवंविधेष्वश्वान् स्थापितान् परिपालयेत् ।। ७९ ।। इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनानि वास्तुशास्त्रे
अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः ॥
अथाप्रयोज्यप्रयोज्यं नाम चतुस्त्रिंशोऽध्यायः ।
राज्ञां सेनापतीनां च वर्णिनामपि वेश्मसु । यदि वा वास्तुकक्षासु सभादेवकुलेषु च ।। १ ।। शयनासनयानेषु भाजनाभरणेषु च । छत्रध्वजपताकासु सर्वोपकरणेषु च ।। २ ॥ अप्रयोज्यानि यानि स्युः प्रयोक्तव्यानि यानि च । विस्तरात् तानि कथ्यन्ते हितार्थमथ देहिनाम् ॥ ३ ॥ पूर्वोक्तानां नृपादीनां यानि देश्मसु केवलम् । अप्रयोज्यानि तान्येव पूर्वमत्राभिदध्महे ॥ ४ ॥ तेषु नैव प्रयोक्तव्याः समस्ता अपि देवताः । दैत्या ग्रहास्तथा तारा यक्षगन्धर्वराक्षसाः ॥ ५ ॥ पिशाचाः पितरः प्रेताः सिद्धविद्याधरोरगाः। चारणा भूतसङ्काश्च तेषां योषाः सुतास्तथा ॥६॥ प्रतीहाराः प्रतीहार्यस्तेषामधिकृताश्च ये । आयुधानि तदीयानि सर्वे चाप्सरसां गणाः ॥ ७॥ दीक्षितव्रतिपापण्डिनास्तिकाः क्षुत्प्रपीडिताः। व्याधिबन्धनशस्त्राग्नितेलामृक्पङ्कपांसुभिः ॥ ८ ॥ शूलज्वरादिभिश्चार्ता येऽन्येऽप्येवंविधा नराः । मत्तोन्मत्तजडक्लीवनग्नान्धवाधिरादयः ।। ९॥ 1. 'बायक' ख. ग. पाठः । २. 'त' क. पाठः ।
"Aho Shrut Gyanam"