SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे अथवा पुष्पदन्ताख्ये स्थानं वासाय वाजिनाम् । अरविशतमात्रं यज्ज्येष्ठं तत् परिकीर्तितम् ॥ २ ॥ अशीत्यरनिकं मध्यं षष्ट्यरत्न्यधमं भवेत् । स्थलप्रदेशे विपुले गुप्ते रम्ये शुचौ तथा ॥ ३ ॥ समे च चतुरश्रे च स्थि(तेरे) मङ्गल्यमेव च । स्थानं हयानां कर्तव्यं प्रदेशे सुपरिक्रमे ।। ४ ।। निम्नगुल्मद्रमस्थाणुचैत्यायतनवेश्मभिः । वल्मीकशर्कराभिश्च वर्जिते तत् समाचरेत् ॥ ५ ॥ निःसङ्गे शल्यहीने च प्रागुदक्प्रवणे तथा । प्रदेशे तद् विधातव्यमालोक्य सुसमाहितैः ॥ ६ ॥ ब्राह्मणानुमते शस्ते' दिने स्थपतिभिः सह । भूमेर्विभागमालोक्य सुभगानानयेद् द्रमान् ॥ ७॥ न जाता ये श्मशानेपु देवतायतनेषु वा । अन्येष्वपि निषिद्धेषु जातान् वृक्षान् विवर्जयेत् ॥ ८ ॥ वृक्षान् प्रशस्तानानीय समीपे भर्तृवेश्मनः । ततो भूमि परीक्षेत प्रशस्तीमथ निन्दिताम् ॥ ९॥ चितायतनवल्मीकग्रामधान्यखलेषु च । विहारेषु च कर्तव्यमश्वानां न निवेशनम् ॥ १० ॥ भवन्ति स्वामिनः पीडा ग्रामधान्यखलेषु च।। श्मशाने वेश्मकरन्नराणां मृत्युमादिशेत् ॥ ११ ॥ स्थानं विहारवल्मीकविहितं स्यादनर्थकम् । तन्नित्यसन्तापकरं क्षयकृच तपस्विनाम् ।। १२ ।। दैवोपघातजननं स्त्रीणां च क्षयकारकम् । विहितं पादपैश्चैत्यैहं स्याद् भूतभीतिदम् १३ ॥ भवेद् रोगकरं भर्तुविहितं कण्टकिंद्रमैः । दीर्णायामुन्नतायां च कृतं भूमौ क्षयावहम् ।। १४ ॥ १. 'स्त' क. पाठः । २. 'शुभानानीय सद्रु' क, 'स्तुभागाना' ख. पाठः । ३. 'स्तां वाथ', ४. 'नाखि' ख. पाठः । ५. 'न', ६. 'णात् तुरगाणां',७. 'क' क. पाठः। "Aho Shrut Gyanam" .
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy