________________
अश्वशाला नाम त्रयस्त्रिंशोऽध्यायः ।
नतायां क्षुद्भयकरं कृतं भवति मन्दिरम् । तस्मात् कार्यं प्रशस्तायां भूमौ तद् वाजिवृद्धये ॥ १५ ॥ मङ्गल्यरमणीये च चतुरश्रे मनोनुगे ।
अन्तः
शुभे च विहितं समवेत् कल्याणकारकम् ॥ १६ ॥ निर्गच्छतो यथा वा पार्श्वे भर्तुस्तुरङ्गमाः । भवन्ति कुर्यात् स्थपतिस्तथा वाजिनिवेशनम् ॥ १७ ॥ : पुरप्रदेशस्य कार्य दक्षिणतश्च तत् । प्रवेशे दक्षिणं तेषां हेषितं जायते यथा ।। १८ ।। तथा भर्तुर्हितार्थाय कर्तव्यं सम वाजिनाम् । प्रागुदग् वा मुखं तस्य विधातव्यं संतोरणम् ॥ १९ ॥ प्राग्ग्रीवकेण संयुक्तं चतुःशालमसङ्कटम् । दशारत्नसमुच्छ्रायमष्टारनिप्रविस्तृतम् || २० || नागदन्तकसंशोभि पुरः कुड्यार्धसंयुतम् । पृष्ठे समग्रकुड्यं वा तत्र स्थानानि कल्पयेत् ॥ २१ ॥ तानि तु प्राङ्मुखानि स्युस्तथैवोदङ्मुखानि च । आयामे किष्कुमात्राणि त्रिकिष्कृणि च विस्तरात् ॥ २२ ॥ प्रांशुन्नतोर्ध्वभागानि चतुरश्राणि कारयेत् । अग्रोच्च सुखसञ्चारां तेषु भूमिं प्रकल्पयेत् ॥ २३ ॥ स्थानं सूत्रस्य मध्ये तु हस्तमात्रं समन्ततः । आस्तीर्ण व समश्लक्ष्णनीरन्ध्रः फलकैर्दृहैः || २४ ॥ धातक्यर्जुनपुन्नागककुभादिविनिर्मितैः । अष्टाङ्गुलसमुच्छ्रायैरध्यर्धारविविस्तृतैः ॥ २५ ॥ अच्छिद्रैः संहतैर्वद्धैस्यैसा पार्श्वयोर्द्वयोः । अजन्तुसङ्कुलैः काष्ठै रुचकाभि (?)र्भिपमतैः || २६ ॥ यवसस्य भवेत् स्थानं निर्यूहैः स्वास्तृतं शुभैः । किष्कुत्रयोच्छ्रितं तत् स्यादेकान्ते सुसमाहितम् ॥ २७ ॥
१९१
6
१. 'ये' क. पाठः । २. 'दे' . पाठः । ३. सुक. पाठः । ४. 'सहितै ' ख. पाठ: । ५. 'ज' क. पाठः ।
"Aho Shrut Gyanam"