________________
१८४
समराङ्गणसूत्रधारे एकत्र मनरपत्र दृष्टैरन्यत्र हत्वा सलिलेन नष्टैः । क्रीडत्यलं केलिकरैः सहायैर्नृपः सुखं मज्जनपुष्करिण्याम् ॥१७१॥ वापीतलस्थितमथ त्रपयावनम्रमाच्छादितस्तनभरं करपल्लवेन । गाढावसक्तवसनं जलरोधमुक्तावालोकते प्रणयिनीजनमत्र धन्यः ॥ १७२ ॥ रथदोलादिविधानं दारवमभिदध्महे वयं सम्यक् । यन्त्रभ्रमणककमे प्रकीर्तितं पञ्चमं यत् तत् ॥ १७३ ॥ तत्र वसन्तः प्रथमो मदननिवासो वसन्ततिलकश्च । विभ्रमकस्त्रिपुराख्यः पश्चैते दोलकाः कथिताः ॥ १७४ ।। निखनेच्चतुरः स्तम्भान् समैकसूत्रोपगान् ऋजून् सुदृढान् । सदृशान्तरान् धरित्रीवशतः सुश्लि(क्ष्णीष्ट)पीठगतान् ।। १७५ ।। प्रासादस्योक्तदिशि प्रविदध्याद विरचिताष्टकरदैर्घ्यम्। भूमिगृहं रमणीयं तदर्धतो विहितगाम्भीर्यम् ॥ १७६ ॥ तदर्भतले स्तम्भो लोहमयाधारसंस्थितः कार्यः। भ्रमसहितः पीठयुतो ग्रस्तश्चच्छादकतुलाभिः ॥ १७७ ॥ संस्थाप्योपरि पीठस्य कुम्भिकामतिहढां विभक्तां च । धनुरुच्छ्रितैस्ततोऽमूमष्टभिरावेष्टयेद् भट्टैः ।। १७८ ॥ स्वेच्छमथ भूमिकोच्छ्यमस्योर्चे कल्पयेन्नितान्तमृजुम् । निदधीत वेष्टनोर्चे पट्टयुतं स्तम्भशीष च ।। १७९ ॥ हरिग्रह (ण?)पर्यन्तं मंदला गजशीपिका विधातव्या । सुदृढा प्रयत्नरँचिता मनोभिरामा यथाशोभम् ॥ १८० ॥ पट्टस्योपरि कार्या चतुष्किका क्षेत्रमानतोऽभीष्टात् । तस्यामुपरि विधेयस्तलबन्धो दृढतरन्यासः ॥ १८१ ॥ स्तम्भैादशभिरथ क्षेत्रे युक्त्या समुच्छ्रितैर्भव्यैः । रूपवतीकोणस्थितिरधिका भूः प्रथमिका कार्या ॥ १८२ ॥
1. 'य मुष्ठिभि' क. पाठः । २. 'स', ३. 'चरिता', ४. 'थि' क. पाठः। ५. 'तमि ' ख, ग, पाठः !
"Aho Shrut Gyanam"