________________
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १८३ चित्राध्यायोदितवर्मना ततोऽलङ्कृतं च चित्रेण । तस्य विधेयं मध्यं सलिलाधिपवाससङ्काशम् ॥ १५९ ।। ऊर्ध्वविनिर्गमिताजैर्नालस्तत्पट्टकन्दकोद्भूतैः । सच्छिद्रकर्णिकागतदिनकरकरनिर्मितोद्योतम् ॥ १६० ॥ आपूरयेत् ततोऽनु च पाताम्बुभिरमलकमलपर्यन्तम् । विधिनामुनैव सम्यक् प्रविधाय मनोरमं भवनम् ॥ १६१ ॥ नानारूपकयुक्त्या (उ?व्यु)परचिततमङ्गतोरणद्वारम् ।। शालाभिरायताभिश्चतसृष्वपि दिक्षु कृतशोभम् ॥ १६२ ॥ कृत्रिमशफरीमकरीपक्षिभिरपि चाम्बुसम्भवैर्युक्ताम् । कुयोदम्भोजवती वापीमाहायेयोगेन ॥ १६३ ॥ सायन्तमुख्यपुरुषा राजाज्ञालब्धसंश्रयास्तत्र । परराष्ट्रागतदूतास्तिष्ठेयुर्निहितमिह निभृताः ॥ १६४ ।। अथ स यथाविधि सलिलक्रीडां पूर्वोक्तमार्गरूपाणाम् । दृष्टा मुदितः कुर्यात् पर्यारोहणं नृपतिः ॥ १६५ ।। तत्र स्थितस्य नृपतेः परिवारितस्य वाराङ्गनाभिरभितो जलमग्नधानि । पातालसमनि यथा भुजगेश्वरस्य निस्सीमसम्भृतरतिर्भवति प्रमोदः ॥ १६६ ।। पूर्वोक्तवापिकायां मध्ये स्तम्भश्चतुर्भिरुपरचितम् । मुक्ताप्रवालयुक्तं पुष्पकमथ कारयेल्लटभम् ॥ १६७ ।। वापी परितः पुष्पकमापूर्य सुनिर्गमाभिरथ सुदृढम् । गर्भस्वस्तिकभित्तिभिरुपहितशोभं समन्ततः कुर्यात् ॥ १६८ ॥ पूर्वोक्तवारियोगात् पूर्णामाकर्णतो विधायैताम् । जलकेलिषु सोत्कण्ठो महीपतिः पुष्पकं यायात् ॥ १६९ ॥ कुर्वीत नर्मसचिवैर्विलासिनीभिश्च सार्धमवनिपतिः । तद्भित्यन्तरवर्ती निमज्जनोन्मज्जनैः क्रीडाम् ।। १७० ॥ १. 'ह' ग. पाठः । २. 'म भित्त्य' क. पाठः।
- "Aho Shrut Gyanam"