SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ १८२ समराङ्गणसूत्रधार इदं नानाकारं कुलभवनमाद्यं रतिपतेनिवासश्चित्राणामनुकरणमेकं जलगुचाम् । पयःपातैग्रीष्मे रविकरपरीतापशमनं न केषामत्यर्थं भवति नयनानन्दजननम् ।। १४८ ॥ एकनाथ चतुर्भिः स्तम्भैरष्टभिरथासङ्ख्यैर्वा । षोडशभिर्वा कुर्यान्मनोहरं गृहमिह द्वितलम् ॥ १४९ ॥ भद्रेयुतं चतुर्भिश्चतुरश्रं सर्वभित्तिसंयुक्तम् । ईलीतोरणयुक्तं कर्तव्यं पुष्पकाकारम् ॥ १५० ॥ तस्योपरि मध्यगता प्राङ्गणवापी दृढा विधातव्या। शतपत्रविहितभूषा तन्मध्ये कर्णिका कार्या ॥ १५१ ॥ तत्कोणेषु चतुर्वपि रमणीया दारुदारिकाः कार्याः । मध्याम्बुजनिहितदशः सालङ्काराः सशृङ्गाराः ।। १५२ ॥ पूर्वोक्तयन्त्रयोगात् पद्मासीने वसुन्धराधिपतौ । भृङ्गारामलवारिभिरङ्गणवापी भ्रियाच ततः ॥ १५३ ॥ तामिति भृत्वा वापी तत्सलिलं तदनुपट्टगर्भगतम् । छाद्यस्तु गन्धरोफ्रेष्वति रोहति(?)सर्वतो नियतम् ॥ १५४ ॥ मुखपट्टसमुत्कीर्णं रूपैश्चित्रैमनोरमैरखिलैः । अङ्गारि विमुञ्चति नासास्यश्रवणनेत्रायैः ।। १५५ ।। प्रणालाख्यं धाराभवनमिदमत्यद्भुततरं स्थितिं धत्ते यस्य क्षितिपतिलकस्याङ्गणभुवि । करोत्येतद् वेत्थं स्थपतिरपि बुध्या चतुरया जगत्येतौ द्वावप्यधिकमहनीयौ कृतधियाम् ॥१५६ ।। चतुरश्रातिगभीरा वापी कार्या मनोरमा सुदृढा । गर्भगतं गृहमस्याः कर्तव्यं लिप्तसन्धि ततः ॥ १५७ ॥ विहितप्रवेशनिर्गति सुरङ्गयाधो निवेशितद्वारम् । विदधीत चारुरूपैः प्रवर्षकैर्व्याप्तमुपरिष्टात् ।। १५८ ॥ 1. 'ई', २. पी भूयेच' ख. पाठः । ३. 'म' क. पाठः । "Aho Shrut.Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy