SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे अथवा चतुस्समन्वितविंशतिसङ्ख्यैर्दिनेशसङ्ख्यैर्वा । भूषितमतिरमणीयश्चतुर्भिरपि वा विधातव्यम् ।। १२४ ।। प्राग्नीवरतिचित्रैः शालेर्जालेविभूषितं विविधैः । वेदीभिः परिकरितं कंपोतपालीभिरभिरामम् ॥ १२५ ॥ रमणीयसालभञ्जिकमनेकविधयन्त्रशकुनिकृतशोभम् । मिथुनैश्च वानराणां जम्भकनिव हैश्च नेकविधैः ॥ १२६ ॥ विद्याधरसिद्धभुजङ्गकिन्नरैश्चारणैश्च रमणीयम् । नृत्यद्भिः परम(गगुणः शिखण्डिभिमण्डितोद्देशम् ।। १२७ ॥ कल्पतरुभिर्विचित्रश्चित्रलतावल्लिगुल्मसंछन्नम् । परपुष्टषट्पदालीमरालमालामनोहारि ॥ १२८ ।। प्रवहत्सकलस्रोतःसुश्लिष्टनिविष्टनाडिकं मध्ये । सच्छिद्रनाडिकयुत नानाविधरूपरमणीयम् ।। १२९ ।। सुश्लिष्टनाडिकाग्रे स्तम्भतुलाभित्तिसंश्रिते परितः । सम्यक् कृत्वा दृढतरविलेपनं वज्रलेपायः ॥ १३० ॥ लाक्षासर्जरसदृपन्नपविषाणोत्थचूर्णसंमिश्रम् । अतसीकरञ्जतैलपविगाढो वज्रलेपः स्यात् ॥ १३१ ॥ दृढसन्धिबन्धहेतोः स तत्र देयो द्विशः कदाचिद् वा । शणवल्कश्लेष्मातकसिक्थकतेले: प्रलेपश्च ।। १३२ ॥ उच्छ्ययन्त्रेणेतद् भ्रान्तजलेनाथ तदभितः कृत्वा । चित्रानुपातयुक्तं प्रदशेयेन्नृपतये स्थपतिः ।। १३३ ॥ कार्याण्यस्मिन् करिणां मिथुनान्यभितोऽम्बुकेलियुक्तानि । अन्योन्यपुष्करोतिसीकरभयपिहितनयनानि ।। १३४ ॥ वर्षानुकृतं चास्मिन् प्रीतिमति प्रतिमतङ्गजो वीक्ष्य । दृक्कटमेहनहस्तैमेदमिव मुञ्चञ् जलं कार्यः ॥ १३५॥ १. 'मगलया' ख. ग. पाठः। २. 'धम् ' क. पाठः ! ३. 'गहनतरतस्यरसपि' ख, पाठः । ४. 'एक:- क. ग. पाटः । ५. 'यतदुच्छ्य सतत्रयन्त्रिण' (?) क. पाठः । ६. 'च्छूि' क, 'ष्टि' ख. ग, पाटः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy