________________
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । उच्छ्रायसमपाताख्यं यत्रोर्वा नाडिका पयः । जलाधारगुणान्मुश्चेदधस्तात् समनाडि( काकम् ) ॥ १११ ।। यत्र पातसमुच्छ्रायं पतित्वोच्छ्रायतो जलम् । तिर्यग् गत्वा प्रयात्यूर्व सच्छिद्रस्तम्भयोगतः ॥ ११२ ।। पतित्वोच्छ्रायतस्तोयं तिर्यग्रोयमेत्यथ । सच्छिद्रस्तम्भयोगेन तत् स्यात् पातसमोच्छ्रयम् । ११३ ॥ वाप्यां वापि च कूपे विधानतो दीर्घिकादिका विहिता । यत्रो मम्बु गमयति तदिहोच्छ्रयसंज्ञितं कथितम् ।। ११४ ।। दारुजमिभस्य रूपं यत् सलिलं पात्रसंस्थितं पिबति । तन्माहात्म्यं निगदितमेतस्योच्छ्रायतुल्यस्य ।। ११५ ॥ सलिलं सुरङ्गदेशानीतं निम्नेन वमना दरे । अद्भुतसम्भस्थानं तदिह समोच्छ्रायतः कुरुते ॥ ११६ ॥ धारागृहमेकं स्यात् प्रवर्षणाख्यं ततो द्वितीयं च । प्राणालं जलमग्नं नन्द्यावते तथान्यदपि ॥ ११७ ।। प्राकृतजनार्थमेतन्न विधेयं योग्यमेतदवनिभुजाम् । मङ्गल्यानां सदनं दिव्यमिदं तुष्टिपुष्टिकरम् ॥ ११८ ॥ सलिलाशयस्य सविधे कस्याप्याश्रित्य शोभनं देशम् । यन्त्रोत्सेधाद् द्विगुणा त्रिगुणा वा नाडिका कार्या ॥ ११९ ॥ जलनिर्वाहसहासावन्तर्मसणा बहिश्च नीरन्ध्रा । नियूढाम्भसि तस्यां शुभे मुहूर्ते गृहं कार्यम् ॥ १२० ।। सर्वाभिरोषधीभिर्युक्तं सहिरण्यपूर्णकुम्भैश्च । सुविचित्रगन्धमाल्यं विनादितं ब्रह्मघोषेण ॥ १२१ ॥ रत्नोद्भवैर्विचित्रैः स्तम्भैर्युक्तं हिरण्यघटितर्वा । रजतोद्भवैः कदाचित् सुरदारुसमुद्भवैरथवा ॥ १२२ ॥ श्रीखण्डोत्थैरथवा सालकमुख्यप्रशस्तक्षोत्थैः । शतसङ्ख्यात्रिंशत्सङ्ख्यैर्यदि वापि षोडशभिः ॥ १२३ ॥
१. 'ब' ख. ग. पाठः । २. 'तं', ३. 'वं', ४. 'लनिमग्नं' क. पाठः । ५. 'द्यथान्य' ख. ग. पाठः । ६. 'रॉ' क. पाठः ।
"Aho Shrut Gyanam