SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ १७८ भमराङ्गणसूत्रधारे स कोऽप्यस्य स्फारः स्फुरति नरसिंहस्य महिमा पुरस्ताद् यस्यैता मदजलमुचोऽपि द्विपघटाः । मुहुः श्रुत्वा श्रुत्वा निनदमपि गम्भीरविषमं __ पलायन्ते भीतास्त्वरितमवधूयाङ्कुशमपि ॥ १० ॥ दृग्ग्रीवातलहस्तप्रकोष्ठबाहरुहस्तशाखादि । सच्छिद्रं वपुरखिलं तत्सन्धिषु खण्डशो घटयेत् ॥ १०१ ॥ श्लिष्टं कीलकविधिना दारुमयं सृष्टचर्मणा गुप्तम् । पुंसोऽथवा युवत्या रूपं कृत्वातिरमणीयम् ।। १०२ ॥ रन्ध्रगतैः प्रत्यङ्गं विधिना नाराचसङ्गतैः सूत्रैः । ग्रीवाचलनप्रसरणविकुञ्चनादीनि विदधाति ॥ १०३ ॥ करग्रहणताम्बूलप्रदानजलसेचनप्र(माणा?णामा)दि । आदर्शप्रतिलोकनवीणावाद्यादि च करोति ॥ १०४ ॥ एवमन्यदपि चेदृशमेतत् कर्म विस्मयविधायि विधत्ते । जृम्भितेन विधिना निजबुद्धेः कृष्टमुक्तगुणचक्रवशेन ॥ १०५ ॥ पुंसो दारुजर्मूचं रूपं कृत्वा निकेतनद्वारि । तत्करयोजितदण्डं निरुणद्धि प्रविशतां वत्मे ।। १०६ ।। खड्गहस्तमथ मुद्गरहस्तं कुन्तहस्तमथवा यदि तत् स्यात् । तन्निहन्ति विशतो निशि चौरान द्वारि संतमुखं प्रसभेन ॥१०७॥ ये चापाद्या ये शतघ्न्यादयोऽस्मिन्नुग्रीवाद्याश्च दुर्गस्य गुप्त्यै । ये क्रीडाद्याः क्रीडनार्थं च राज्ञां सर्वेऽपि स्युर्योगतस्ते गुणानाम् ।। इदानी प्रक्रमायातं वारियन्त्रं प्रचक्ष्महे ।। क्रीडाथै कार्यसिद्धय च चतुओं तद्गतिं विदुः ।। १०९ ॥ निम्नगं भवति द्रोणीदेशालस्थिताजलम् । यत्र तत् पतियन्त्रः स्याद् वाटिकादिप्रयोजनम् ॥ ११० ।। १. '' क. पाटः । २. 'बाहुबा' ख. ग. पाठः । ३. 'शोऽद्य घ', ४, 'नि', ५. 'ध', ६. 'मूर्ध' क. पाठः । ७. 'ये च शक्त्याद', ८. 'रूणाम्', ९. ‘ण्या' ख. पाठः । १०. 'द' क, पाटः। ११. 'या' ख, ग, पाठः । .- -.. "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy