________________
यन्त्रविधानं नागैकत्रिंशोऽध्यायः । दारवेषु विहगेषु तदन्तः क्षिप्तमुद्गतसमीरवशेन । आतनोति विचलन्मृदशब्दं शृण्वतां भवति चित्रकरं च ।। ९० ॥ सुश्लिष्टखण्डद्वितयेन कृत्वा सरन्ध्रमन्तर्मुर जानुकारम् । ग्रस्तं तथा कुण्डलयोयुगेन मध्ये पुटं तस्य मृदु प्रदेयम् ॥ ९१ ॥ पूर्वोक्तयन्त्रे विधिनोदरेऽस्य क्षिप्तेऽथ शय्यातलसंस्थमेतत् । ध्वनि ततः सञ्चलनादनङ्गक्रीडारसोल्लासकरं करोति ॥ ९२ ॥ अस्मिञ् शय्यातलविनिहिते मुञ्चति व्यक्तरागं
चित्राञ् शब्दान्. मृगशिशुदृशां या(न्ति?ति) भीत्येव मानः । किञ्चैतासां दयितमभितो निर्भरप्रेमभाजां
प्रोहिं गच्छन्त्यधिकमधिकं मन्मथक्रीडितानि ।। ९३ ।। पटहमुरजे वेणुः शङ्खो विपश्चयथ काहला __ डमरुटिविले वायातोद्यान्यमून्यखिलान्यपि । मधुरमधिकं यञ्चित्रं च अनि विदधात्यलं
तदिह विधिना रुद्रोन्मुक्तानिलस्य विजृम्भितम् ।। ९४ ।। लघुदारुमयं महाविहङ्गं दृढसुश्लिष्टतनुं विधाय तस्य । उदरे रसयन्त्रमादधीत चलनाधारमधोऽस्य चा(ति?ग्नि) पूर्णम् ॥ तत्रारूढः पूरुषस्तस्य पक्षद्वन्द्वोचालपोज्झितेनानिलेन । सुप्तस्यान्तः पारदस्यास्य शक्त्या चित्रं कुवेन्नम्बरे याति दूरम् ।। इत्थमेव सुरमन्दिरतुल्यं सञ्चलत्यलघु दारुविमानम् । आदधीत विधिना चतुरोऽन्तस्तस्य पारदभृतान् दृढकुम्भान् ॥९७॥ अयःकपालाहितमन्दवनिप्रततनत्कुम्भभुवा गुणेन । व्योम्नो झगित्या परगत्यति सन्तप्तगर्जद्रसराजशक्त्या ॥ ९८ ॥ वृत्तसन्धितमथायसमन्त्रं तद विधाय रसपूरितमन्तः । उच्चदेशविनिधापितन सिंहनादमुरजं विदधाति ।। ९९ ।।
1. 'प्र', २. 'खहि ख. ग. पाट: । ३. ' 'पु', ४. 'भे' क. पारः । ५. 'बि' ख. पाट:1६. 'म' ख, ग, पाठः ।
"Aho Shrut Gyanam"