SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ यन्त्रविधानं नामकांत्रशोऽध्यायः । प्रेरितः सगृहीतश्च जनितश्च समीरणः । आत्मनो वीजतां गच्छत्येवमन्यत् प्रकल्पयेत् ॥ ४१ ॥ भूतमेकमिहोद्रिक्तमन्यद्धीनं ततोऽधिकम् । अन्यद्धीनतरं चान्यदेवप्रायविकल्पितः ॥ ४२ ॥ नाना भेदा भवन्त्येषां कस्तान कात्स्न्येन वक्ष्यति। निष्क्रिया भूः क्रिया त्वंशे शेपेषु सहजा त्रिषु ॥ ४३ ।। अतः प्रायेण सा जन्या क्षितावेव प्रयत्नतः । साध्यस्य रूपवशतः सन्निवेशो यतो भवेत ।। ४४ ॥ यन्त्राणामाकृतिस्तेन निर्णतुं नैव शक्यते । यथावद्वीजसंयोगः सौश्लिष्ट्यं श्लक्ष्णतापि च ॥ ४५ ॥ अलक्षता निर्वहणं लधुत्वं शब्दहीनता । शब्दे साध्ये तदाधिक्यमशैथिल्यमगाढता ॥ ४६॥ वहनीपु समस्तासु सौश्लिष्ट्यं चाम्बलदति ।। यथाभीष्टार्थकारित्वं लयतालानुगामिता ॥ ४७ ।। इष्टकालेऽर्थदर्शित्वं पुनः सम्यक्त्वसंवृतिः । अनुल्वणत्वं ताप्यं दाढये मसृणना तथा ।। ४८ ॥ चिरकालसहलं च यन्त्रस्येते गुणाः स्मृताः । एकं बहूनि चलयेद् बहुभिश्वाल्यतेऽपरम् ।। ४९ ॥ सुश्लिष्टत्वमलक्षत्वं यन्त्राणां परमो गुणः । अथ कर्माणि यन्त्राणां विचित्राणि यथाविधि ॥ ५० ॥ नविस्तरान्नसक्षेपात साम्प्रतं संप्रचक्ष्महे । कस्यचित् सा क्रिया साध्या कालः कस्यापि कस्यचित् ॥५१॥ शब्दः कस्यापि चोच्छ्रायो रूपस्पशौं च कस्यचित् । क्रियास्तु कार्यस्य वशादनन्ताः परिकीर्तिताः ।। ५२ ।। तिर्यगृह्ममधः पृष्ठे पुरतः पार्श्वयोरपि । गमनं सरणं पात इति भेदाः क्रियोद्भवाः ॥ ५३॥ १. 'यो विक' क. पाटः । २. 'जात्या वि' ख. ग. पाटः। ३. तत्प्रय' ४. 'न' क. पाठः । ५. 'त', ६. 'त्रिः' ख. ग. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy