________________
समराङ्गणसूत्रधारे
शृङ्गावली च नाराचः स्ववीजान्योर्वरे विदुः । ताप उत्तेजनं स्तोभः क्षोभश्व जलसङ्गजः ॥ २८ ॥ एवमायग्निवीजानि पार्थिवस्य प्रचक्षते । धारा च जलभारश्च पयसो भ्रमणं तथा ॥ २९ ॥ एवमादीनि भूजस्य जलजानि प्रचक्षते । यथोच्छायो यथाधिक्यं यथा नीरन्ध्रतापि च ॥ ३० ॥ अत्यन्तमूर्ध्वगामित्वं स्वर्वाजान्ययसस्तथा । मरुत् स्वभावजो गाग्राहकच प्रतीप्सितः ॥ ३१ ॥ इत्याद्य-जनाद्यैश्च गजकर्णादिभिः कृतः । (छाचा)णितो गालितश्चायं बीजं भवति भूभवे ॥ ३२ ॥ काष्ठं (भृ?क)त्तिश्च लोहं च जलपार्थिवं भवेत् । अन्यदभस्तदप्यस्तु तियध्वमधस्तथा ॥ ३३ ॥ बीज स्वकीयं भवति यन्त्रेषु जलजन्मसु । तापाद्यं पूर्वकथितं वदि जलजे भवतु ॥ ३४ ॥ सगृहीतश्च दत्तश्च पूरितः प्रतिनोदितः । मरुद् वीजत्वमायानि यन्त्रेषु जलजन्मसु ॥ ३५ ॥ वह्रिजातषु मृत्ताम्रलोहरुक्मादि तद्ग्रहे । पार्थिवं कथयन्तीह बीजं वीजविचक्षणाः ॥ ३६ ।। वह्नतिर्भवेद् बीजमाप आपस्तथा भवेत् । आईत्यादिभिः प्रोक्तमरुद् गच्छति बीजताम् ।। ३७ ॥ प्रत्येषकं च जनकं प्रेरकं ग्राहकं तथा । सङ्ग्राहकं च भूजातं वीज म्यादनिलोद्भवः ॥ ३८ ॥ प्रेरणं चाभिघातश्च विवर्ती भ्रमणं तथा जलजं मारतोत्थपु वीजं स्यादिति सम्मतम् ।। ३९ ॥ सङ्ग्रहीतस्य तापायर्यानि पावकजन्मनि । प्रकीर्तितानि तान्येव भवन्ति पवनोद्भवैः ॥ ४० ॥
१. 'डी', २. 'स्थिता', क. पाटः । ३. 'तले', ४. '४', ५. 'तं', ६. 'स्वादपाच ति', ७. 'ना' ख. पाठः। ८. 'इ' क. पाठः ।
"Aho Shrut Gyanam"