SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे तेषां पृथ्वीजयादीनां द्वारमानमयोच्यते । चतुःपञ्चाशदंशो यो विस्तृतः सकरत्रयः ॥ १२२ ॥ स द्वारस्योदयः प्रोक्तस्तदर्धेनास्य विस्तृतिः । स्वोदयस्य त्रिभागेन पिण्डः स्तम्भेषु शस्यते ॥ १२३ ।। स्यात् सप्तविंशतितमः सपादः सचतुष्करः । गृहभागो भवेद् भूमिः प्रथमा राजवेश्मनाम् ।। १२४ ।। भूच्छाये नवधा भक्ते तदंशकचतुष्टयम् । निर्गमश्छाधकस्यांशद्वयं पादोनमुच्छ्रयः ॥ १२५ ।। तथान्तरावणी कार्या छाद्यकोच्छ्रायनिर्गता । हीरग्रहणपिण्डार्धवाहल्या सा प्रशस्यते ॥ १२६ ॥ तस्याः स्वमेव बाहल्यं पादोनं विस्तृतिः स्मृता । अन्तरावणिकातुल्यो मदलाया विनिर्गमः ॥ १२७ ॥ स्वनिर्गमात् तथा चास्याः सपादः स्यात् समुच्छ्रयः । भूम्युच्छ्रयनवांशस्य पादोऽस्याः पिण्डमिष्यते ॥ १२८॥ भूनवांशस्त्रिभागोनो मदलायाश्च विस्तृतिः। * लुमामूलस्य स्तम्भाधे विस्तारः परिकीर्तितः ॥ १२९॥ ततव्यंशादग्रविस्तीर्णा मूले साष्टांशयुग् भवेत। तुम्बिनी लम्बिनी हेला शान्ता कोला मनोरमा ।। १३० ।। आध्माता चैत्यमूः प्रोक्ता लुमाः सप्त मनीषिभिः । ऋजुः सा लम्बिनी तासामाध्माता कर्णगा स्मृता । १३१ ॥ अन्तराले क्रमेण स्युः पञ्चान्याः परिकीर्तिताः।। स्तम्भे निदध्यान्मदलो छायं धतु दृढां शुभाम् ।। १३२ ॥ स्तम्भाभावे पुनन्यस्येत् कुड्यपट्टेऽपि तां सुधीः । सप्त पश्चाथवा तिस्रो मल्लच्छाये लुमाः स्मृताः ॥ १३३ ।। कोणेष्वेता इमाभ्योऽन्याः कर्तव्याः प्राञ्जलाः समाः । छाये कणोत् कचित् कायों मकराननभूषिताः ॥ १३४ ॥ १. 'मतःस' ख. पाठः । २. 'स्यां', ३. 'ध' ख. पाठः। * 'लुपा' इति शिल्पशास्त्रे प्रसिद्धिः । - anal "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy