SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ १६७ राजगृहं नाम त्रिंशोऽध्यायः । प्रतापवर्धनस्याथ लक्ष्म साम्प्रतमुच्यते । पञ्चविंशतिहस्ताङ्क सार्धभागत्रयाङ्किते ॥ १०९ ॥ मध्ये चतुष्को भागेन चतुर्भिः सम्भृतो धरैः । अलिन्दो भागिकश्चास्य स्तम्भद्वादशकान्वितः ॥ ११० ॥ पादिका भित्तिरेतस्य भद्रं चास्य प्रकल्पयेत् । भागनिर्गमविस्तारं चतुःस्तम्भविभूषितम् ॥ १११ ॥ विधिरेप समग्रासु दिक्ष कार्योऽस्य सिद्धये ।। स्तम्भैात्रिंशता युक्ती वहिरन्तरयं भवेत् ।। ११२ ॥ धराणां चैव सर्वेषां चतुःपष्टिः प्रकल्पना । अर्थ लक्ष्मीविलासस्य सम्यग् लक्ष्माधुनोच्यते ॥ ११३ ॥ प्रतापवर्धनस्येव मध्यमस्य प्रकल्पयेत् । प्रतापवर्धनसमं सर्वतोऽप्येतदीरितम् ॥ ११४॥ किन्त्वस्य पार्श्वभद्राणि भद्राणामेव कारयेत् । कोणेष्वपिच भद्राणि पार्श्वयोरुभयोस्तथा ।। ११५ ॥ भार्ग(स्यश्च) निर्गमोऽप्येषां विशेपोऽस्मादयं मतः । भद्रमस्य दशस्तम्भैर्मध्यं पोडशभिधेरैः ॥ ११६ ॥ चतुर्दारं भवेदेतदिच्छया क्षणमध्यगम् । द्वारमन्यद् विधातव्यं स्वपदे स्यात् सुशोभितम् ।। ११७ ।। भूमिभिः सार्धषष्ठीभिर्विधेयः क्षोणिभूपणः । अर्धाष्टमीभिश्च भवेत् पृथ्वीतिलकसंज्ञकः ॥ ११८ ॥ स्यात् सार्धपञ्चमीभिस्तु श्रीनिवासोत्र भूमिभिः । लक्ष्मीविलाससंज्ञोऽर्धपञ्चमीभिर्विधीयते ॥ ११९ ॥ प्रतापवर्धनाख्योऽर्धचतुर्थीभिर्विधीयते । राज्ञां पृथ्वीजयादीनि निवासभवनानि च ।। १२० ॥ क्षोणीविभूषणादीनि विलासभवनानि च । यान्युक्तानि निवासाय विलासाय च भूभृताम् ॥ १२१ ॥ १. 'तो' क. पाठः । २. 'गास्या नि', ३, ‘म्भं म', ४. 'म' ख. पाठः। "Aho Shrut Gyanam".
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy