________________
१६६
समराङ्गणसूत्रधारे भामेन विस्तृत कार्य भागेनापि च निर्गतम् । दिक्षु सर्वासु कर्तव्यो विधिरेपोऽस्य सिद्धये ॥ ९६ ॥ मध्यस्तम्भश्रतुःषष्ट्या संयुक्तं सारदारुजैः । पतिभद्रं धरैः कार्यमष्टादशभिरन्वितम् ।। ९७ ॥ षत्रिशं शतमेवं स्यात् स्तम्भानामिह सर्वतः। चतुर्दारमिदं कार्य यशःश्रीकीर्तिवर्धनम् ॥ ९८ ॥ पृथिवीतिलकस्याथ लक्षणं परिकीर्त्यते । चत्वारिंशत्करे क्षेत्रे भागैर्भक्तेऽर्धषष्ठकैः ॥ ९९ ॥ भागिकः स्याच्चतुष्कोऽन्तश्चतुःस्तम्भविभूषितः । अलिन्दोऽपिच भागेन स्तम्भ-दशभिर्युतः ॥ १० ॥ विंशत्या चै द्वितीयोऽपि भित्तिः स्यादस्य पादिका । कर्णे प्रासादको भागेस्त्रिभिः स्यान्निगतायतः ॥ १०१।। अस्य भद्र_यं कार्य भागनिर्गतविस्तृतम् । कर्णप्रासादयोमध्ये भागपञ्चकविस्तृतम् ॥ १०२ ॥ भागेन निर्गतं कार्य भद्रं तस्यापि मध्यतः । भागत्रितयविस्तीर्ण भागेनैकेन निगेतम् ॥ १०३ ॥ भद्रमस्यापि मध्येऽन्यद् भागेनायतनिर्गतम् । स्तम्भाः पत्रिंशदन्तः स्युभद्रेप्यष्टी शतद्वयम् ॥ १०४ ।। अथातः श्रीनिवासस्य लक्षणं सम्प्रचक्ष्महे । पृथ्वीतिलकवन्मध्यमेतस्य परिकीत्यते ॥ १०५ ।। सपादं भागमुत्सृज्य भागत्रितयविस्तृतम् । भागेन निगेतं चास्य भद्रमायं प्रकल्पयेत् ॥ १०६ ॥ तस्यापि मध्यवर्तन्यद् भागनिर्गतविस्तृतम् । अन्वितं दशभिः स्तम्भैः सुदृद्वैस्तद् विधीयते ।। १०७ ॥ सर्वास्वपि च दिक्ष्वेवं विधेया भद्रकल्पना । अस्य षट्सप्ततिः स्तम्भाः भवन्त्येकत्र सङ्ख्यया ॥ १०८ ।।
१. 'शःकीतिविव', २. 'वि' क. पाटः। ३. 'थ', ४. 'द्रंच यत्का' ख. पाठः। ५. 'कल्पते', ६. '' क. पाठः।
"Aho Shrut Gyanam".