________________
१६५
राजगृहं नाम त्रिंशोऽध्यायः । ततोऽर्धभागिकी भित्तिः कर्तव्या सर्वतो बहिः । भद्रे भागायतो भद्रविनिष्क्रान्तश्चतुर्धरः ।। ८३ !! चतुष्को भागिकालिन्दद्वयेन परिवेष्टितः । त्रिभागविस्तृतं भद्रं तदहि गनिर्गतम् ॥ ८४ ॥ भागिकं प्रतिभद्रं च कुर्यादुभयतः समम् । भागाध बाह्यतो भित्तिर्भद्रस्य परितो भवेत् ॥ ८५॥ विधिरेष विधातव्यो दिक्ष्वेवं चतसृष्वपि । विलासस्तबको नाम प्रासादोऽयं प्रकीर्तितः ।। ८६ ।। कर्णप्राग्नीवको द्वौ द्वौ शालाप्राग्नीवको यदा । स्यातामस्य तदा कीर्तिपताकः परिकीर्तितः ॥ ८७॥ अस्यैव पीठे निर्मुक्तशालाभिः परितोऽष्टभिः । अन्योन्यशालासंबद्ध यदासावेव दीयते ।। ८८ ।। कर्णप्रासादकोपेतः कोणैः शालोज्झितैयुतः । प्रासादसुन्दरो ज्ञेयस्तदा भुवनमण्डनः ॥ ८९ ।। एते प्रोक्तास्तलच्छन्दा जङ्गासंवरणादिकम् । भूमिमानादिकं यच्च तत् पृथ्वीजयवद् भवेत् ॥ ९ ॥ इदानीं कथ्यते लक्ष्म क्षोणीभूषणवेश्मनः । पञ्चपञ्चाशता हस्तैः कल्पिते चतुरश्रके ॥ ९१ ॥ विभक्त चाष्टभिर्भागैश्चतुष्को भागिकः स्मृतः । चतुर्भिरन्वितः स्तम्भैरलिन्दश्वास्य भागिकः ॥ ९२ ॥ युक्तो द्वादशभिः स्तम्भैर्विंशत्या च द्वितीयकः । स्यादष्टाविंशतिधरस्तृतीयश्चाप्यलिन्दकः ॥ ९३ ।। भित्तेरप्यर्धभागेन साधु भागं विमुच्यते । भागपञ्चकविस्तीर्ण भद्रं भागेन निर्गतम् ॥ ९४ ॥ तन्मध्यभद्रमन्यच भागत्रितयविस्तृतम् ।
भागेन निर्गतं कार्य भद्रमन्यत् ततोऽपिच ॥९५॥ १. 'के', २. 'वृते', ३. 'कावल' ख. पाठः । ४. 'स्तम्भे ज' क. पाठः
"Aho Shrut Gyanam'