________________
१६५
समराङ्गणसूत्रधारे लक्ष्मीविलाससंशं च पञ्चमं परिकीर्तितम् । चतुरश्रीकृते क्षेत्रे दशभागैर्विभाजिते ॥ ७० ॥ चतुष्को भागविस्तीर्णो मध्ये कार्यश्चतुर्धरः । बहिश्च भागिकोऽलिन्दस्तदन्तेऽशत्रयायताः ॥ ७१ ॥ कर्णप्रासादकाः कार्या भागत्रितयविस्तृताः। तेषां पड्दारुकं मध्ये भित्तिर्भागार्धसम्मिता ॥ ७२ ॥ तबहिर्भागनिष्क्रान्तो भद्रे भागं च विस्तृतः । प्राग्नीवत्रयसंयुक्तो भागिकालिन्दवेष्टितः ॥ ७३ ॥ अर्धभागिकाभित्या च चतुष्को वेष्टितो भवेत । प्रासादोऽयं मनोहारी भवेदवनिशेखरः ॥ ७४ ॥ चतुरश्रीकृते क्षेत्रे भागद्वादशभाजिते । चतुष्को भागिको मध्ये बाह्यालिन्दौ च भागिको ॥ ७५ ॥ नवकोष्ठांश्च कर्णेषु प्रासादान् विनिवेशयेत् । षड्दारुकं च कतेव्यं तेषामन्तरसंश्रयम् ॥ ७६ ॥ ततोऽर्धभागिकी भित्तिः कर्तव्या सर्वतो वहिः । भद्रे भागायतो भागविनिष्क्रान्तश्चतुर्दिशम् ।। ७७ ॥ चतुष्को भागिकॉलिन्दवेष्टितश्च विधीयते । अस्य भद्रत्रयं कार्य भागविस्तारनिर्गमम् ।। ७८ ।। अर्धभागिकभित्या च वेष्टितं तद विधीयते । कर्णेकर्णे (स?स्य)विस्तीर्णे द्वे भद्रे भागनिर्गते ॥ ७९ ॥ प्रासादमेवं भुवनतिलकं परिचक्षते । चतुरश्रीकृते क्षेत्रे भागद्वादशभाजिते ।। ८० ॥ चतुष्को भागिको मध्ये चतुःस्तम्भो विधीयते । तदहि गिकोऽलिन्दो द्वितीयोऽपिच भागिकः ॥ ८१ ॥ नवकोष्ठांश्च कर्णेषु मासादान् विनिवेशयेत् । षड्दारुकं च कर्तव्यं तेषामन्तरसंश्रयम् ॥ ८२ ॥ १.'' क, पाठः । २. 'दि, ३. 'ता. ' ख. ४. 'को' क. पाठः।
"Aho Shrut Gyanam"|