________________
राजगृहं नाम त्रिंशोऽध्यायः । भागविस्तारसंयुक्तं भद्रमन्यत् प्रकल्पयेत् । दिक्षु सर्वास्वयं प्रोक्तो विधिर्भद्रप्रकल्पने ॥ ५७ ।। स्तम्भानामस्य कर्तव्यं मध्ये षण्णवतं शतम् । भद्रेष्वेषु च सर्वेषु भवेत् षष्ठ्यधिकं शतम् ॥ ५८ ॥ समेन प्रविभागेन स्तम्भानामेकसङ्ख्यया ।। इत्थं समस्तस्तम्भानां पट्पञ्चाशं शतत्रयम् ॥ ५९ ॥ किन्तु जङ्घा भवेदस्य भूमिकात्रितयोन्मिता । शत्रुमर्दनसंज्ञस्य धाम्नो लक्ष्माथ कथ्यते ॥ ६० ॥ पृथ्वीजयसमं मध्ये भित्तिश्चापि तथाविधा। सार्धं भागं परित्यज्य भागेनायतविस्तृतम् ॥ ६१॥ भद्रं विदध्यात् तन्मध्ये भागत्रितयविस्तृतम् । भद्रमेवं विधातव्यं भागत्रितयनिर्गतम् ॥ ६२ ।। पार्श्वयोर्भागिकं भद्रमाय(त्यां?त्या) विस्तरेण च । भागत्रितयविस्तारं भागेन केन निगेमम् ॥ ६३ ।। मध्यभद्रं ततोऽपि स्याद् भागेनायतविस्तृतम् । क्रमोऽयं दिक्षु सर्वासु विधातव्योऽस्य सिद्धये ॥ ६४ ।। ऊर्ध्व पृथ्वीजयस्येव कार्यमस्यापरं पुनः ।। प्रतिभद्रं चतुश्चत्वारिंशत्स्तम्भसमन्वितम् ।। ६५ ।। मध्ये स्तम्भशतं चास्य विधेयं सुदृहं शुभम् । षट्सप्ततिस्तम्भशनद्वयमस्य भवेदिति ।। ६६ ।। पश्चानामपि चैतेषां हस्ताएशनमुत्तमम् । मानमुत्सेधविस्तारान् कर्तव्यं श्रियमिच्छता ॥ ६७ ।। मध्यमाधमयोर्मानं कीर्तितं पृथिवीजये । राज्ञः क्रीडार्थमन्यच्च कथ्यते गृहपञ्चकम् ॥ ६८ ॥ क्षोणीविभूषणं त्वाद्यं पृथिवीनिलयं पाम् । प्रतापवर्धनं चान्यच्छीनिवासं ततोपि च ।। ६९ ।।
१. 'वं
क. पाठः । २. 'भद्रंभ' ख, पाटः।
"Aho Shrut Gyanam"