________________
१६२
समराङ्गणसूत्रधारे अयमेव विधिः कार्यो मुण्डरेखाप्रसिद्धये । श्रीवत्सस्यापि मध्ये स्थात् स्तम्भाय मुक्तकोणवत् ॥ ४४ ॥ सार्ध भागं परित्यज्य भागत्रितयविस्तृतम् ।। कर्णप्राग्नीवमेतस्य भागेन च विनिर्गतम् ॥ ४५ ॥ भद्र तस्यापि कर्तव्यं भागविस्तारनिर्गमम् । मुक्तकोणवदस्यापि मध्यभद्रं विधीयते ॥ ४६॥ अयं विधिः समग्रासु दिक्षु शेषं तु पूर्ववत् । प्रतिभद्रं धरास्त्रिंशद् भवन्त्यस्य दृढाः शुभाः ।। ४७ ॥ शतं विंशमिदं (सर्व)धराणामिह कीर्तितम् । एवं समस्तस्तम्भानां चतुःषष्ठं शतद्वयम् ।। ४८ ।। सर्वतोभद्रसंज्ञस्य लक्ष्मेदानी प्रचल्यो । चतुरश्रीकृते क्षेत्रे चतुदेशविभाजिते ॥ ४९ ॥ भागिकः स्याचतुष्कोऽस्य चतुःस्तम्भविभूपितः । स्तम्भैादशभियुक्तः प्रथमः स्यादलिन्दकः ।। ५० ।। स्तम्भविंशतिसंयुक्तो द्वितीयः स्यादलिन्दकः । स्यादष्टाविंशतिस्तम्भस्तृतीयः स्या(प्याद)लिन्दकः ।। ५१ ।। पत्रिंशता चतुर्थः स्यादलिन्दो भूपितो धरैः ।। पञ्चमः स्याचतुश्चत्वारिंशाता भूपितो धेरैः ।। ५२ ।। द्वापञ्चाशद्धरः पाठः सर्वेऽप्यते ऽस्य भागिकाः । भागाध शस्यते भित्तिः सर्वतः सुदृढा बना ॥ ५३ ॥ सार्धमागं परित्यज्य भागत्रितयविस्तृतः । कर्णप्राग्ग्रीवकश्च स्याद् भागमकं च निर्गमः ॥ ५४ ॥ भद्रमस्यापि कर्तव्यं भागनिगमविस्तृतम् ।। मध्ये भद्रं विधातव्यं भागद्वयविनिर्गतम् ।। ५५ ॥ अस्यापि भद्रं मध्ये स्याद् भागत्रितयविस्तृतम् । भागिको निर्गमश्चास्य तदन्तर्भागनिर्गतम् ।। ५६ ॥ १. 'यस्या', २. 'त', ख. पाठः । ३. 'द्र' क, ख, पाठः।
"Aho Shrut Gyanam"