SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ राजगृहं नाम त्रिंशोऽध्यायः । भूम्यष्टकादभ्युदयः क्षेत्रविस्तारसम्मितः । यतस्तव वधे प्रोक्तः प्रासादोऽन्यद् विभूपणम् (१) ॥ ३०॥ बहवो निकरा येषु प्राङ्गणं तेषु दीयते । रेखायां प्रथमायां वा द्वितीयायामथापि वा ॥ ३१॥ तृतीयायां वा रेखायां तत्र संवरणाः स्मृताः । अयं भूम्युदयः कायेः क्षेत्रे दशविभागिके ॥ ३२ ॥ न्यूनाधिकविभक्त तु कार्यः स्यादनुसारतः । मुक्तकोणस्य लक्ष्माथ प्रक्रमागतमुच्यते ।। ३३ ।। चतुरश्रीकृते क्षेत्रे भागद्वादशकाङ्किते। भागश्चतु(ष्टोको) मध्येऽस्य चतु(द्वा) रविभूषितः ॥ ३४ ॥ भागेन च ततोऽलिन्दो धरद्वादशकान्वितः । तद्वद् द्वितीयालिन्दोऽपि विंशत्या धारितो धरैः ॥ ३५ ॥ तृतीयश्च धरैरष्टाविंशत्यालिन्दको भवेत् । पत्रिंशता धरैर्युक्तः कार्योऽलिन्दश्चतुर्थकः ॥ ३६ ॥ चतुश्चत्वारिंशता स्यात् धरैर्युक्तश्च पञ्चमः। भागाधं कारयेद् भित्तिं साधं भागं विमुच्य तु ॥ ३७॥ भागत्रयं ततः कुर्यात् प्राग्ग्रीवं दैर्ध्यविस्तृतौ । विस्तृतौ निर्गमे चैषां भद्रं भागेन कल्पयेत् ।। ३८ ॥ भागिकं निर्गतं तस्मान्मध्येऽन्यद् भद्रमस्य हि । भागनिर्गमविस्तारं दिक्षु सर्वास्वयं विधिः ॥ ३९ ॥ चतुःपञ्चाशता स्तम्भैरेकै भद्रमन्वितम् । मध्ये वास्य चतुश्चत्वारिंशं स्तम्भशतं भवेत् ॥ ४० ॥ षोडशाभ्यधिका च स्याद् भद्रस्तम्भशतद्वयी । एवं धराणां सर्वेषां भवेत् षष्ठं शतत्रयम् ।। ४१ ॥ पृथ्वीजयवदत्रापि शेपनिर्माणमिष्यते । तृतीयभूमिकामूर्ध्नि निर्गमेष्वखिलेष्वपि ॥ ४२ ॥ मानणानि विधेयानि विशेषोऽवेष कीर्तितः ।। सर्वतोभद्रसंज्ञेऽथ शत्रुमर्दननाम(पिनि) ॥ ४३ ॥ "Aho Shrut.Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy