SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ समराङ्गणसूत्रधारे श्रेष्ठकद्रव्यजा शय्या मिश्रद्रव्या न शस्यते । एकदारुं प्रशंसन्ति द्विदारुभयमावहेत् ॥ २२ ॥ त्रिदारुघटितायां तु स्वामिनो नियतो वधः । शय्यायां जायते यस्मात् तस्मात् ता परिवर्जयेत् ॥ २३ ।। मूलमग्रेण संयुक्तमपसव्यं विगर्हितम् । मूलं मूलेन वा विद्धमेकाग्रे द्वे च दारुणी ॥ २४ ॥ मध्ये व्रणो मृत्युकरस्त्रिभागे व्याधिकारकः । केशावहश्चतुर्भागे शिरस्थो द्रव्यहानिकृत् ॥ २५ ॥ निर्दोषगाने पर्यङ्के पापस्वप्नो न दृश्यते । ग्रन्थिकोटरवत् कुर्यात् तस्मान्न शयनासनम् ॥ २६ ॥ आसनं शयनीयं च ग्रन्थिकोटरवर्जितम् । बहुपुत्रकरं प्राहुधेमकामार्थसाधनम् ॥ २७ ॥ आरोहणे प्रचलति शयने कम्पते तथा । विदेशयानकलहौ ते क्रमेण प्रयच्छतः ॥ २८ ॥ सुश्लिष्टां तामतः कुर्यान्निर्दोषां वर्णशालिनीम् । दृढां स्थिरां च स्थपतिः पत्युः कामविऋद्धये ।। २९ ।। निष्कुट कोलहक क्रोडनयनं वत्सनाभकम् । कालकं बन्धकं चेति छिद्रसंक्षेप इंरितः ॥ ३० ।। घटवत् सुषिरं मध्ये सङ्कटास्यं च निष्कुटम् । कोलाक्षं नीडमिच्छन्ति माषनिष्पावमात्रकम् ।। ३१ ।। अध्यर्धपर्वदीर्घ च विवर्ण विपमं तथा । तदिह क्रोडनयनं छिद्रमाहुमहर्षयः ॥ ३२ ।। भिन्नं पर्वमितं वामावर्त स्याद् वत्सनामकम् । कालकं कृष्णकान्ति स्याद् विनिर्भिन्नं तु वन्धकम् ॥ ३३ ॥ छिद्रं दारुसवर्णं यत् तनो शुभकरं तथा । निष्कुटेऽर्थक्षयः कोललोचने कुलविद्रवः ॥ ३४ ॥ १. 'मा' क. पाठः । २. 'क', ३. 'व्यायां कम्पतेऽथवा ।', ४. 'न्धु' ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy