SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ शयनासनलक्षणं नामकोनत्रिंशोऽध्यायः । कर्मागुलं समुद्दिष्टं वितुपैरष्टभिर्यवैः । अष्टोत्तरशतं तेषां शय्या ज्येष्ठा महीभुजाम् ।। ९ ।। मध्या महीभुजां शय्या शतं स्याच्चतुरुत्तरम् । शतं कनीयसी प्रोक्ता नृपाणां विजयावहा ॥ १० ॥ नवतिर्नुपपुत्रस्य मन्त्रिणः सा पडुज्झिता । द्वादशोना बलपतेत्रिपदकोना पुरोधसः ।।११।। आयामार्धेन विस्तारं सर्व शय्यासु कल्पयेत् । यहा निजाष्टभागेन पहभागेनाथवाधिकम् ।। १२ ॥ विप्राणां शस्यते शय्या देयेणाङ्गुलसप्ततिः ।। द्वाभ्यां द्वाभ्यामगुलाभ्यां हीना स्याच्छेषवर्णिनाम् ॥१३॥ बाहल्यमुत्पलस्य स्यादुत्तमस्यागुलत्रयम् । अगुलद्वितयं साधं मध्यस्य द्वे कनीयसः ॥ १४ ॥ वाहल्यमीशादण्डस्य कुर्यादुत्पलसम्मितम् । साधं सपादं सव्यंशं तस्य विस्तारमुत्पलात् ।। १५ ।। विस्तारार्धन शय्यायाः स कुष्यस्य विधीयते । तत्पादस्योद(यो?यो) मध्यहीनो द्विचतुरुज्झितों ॥ १६ ॥ अर्धेन मध्यविस्तारान्मध्ये वाहल्यमिष्यते । त्रिभागहीनमिच्छन्ति पादोनमपि केचन ॥ १७ ॥ स्थौल्येन पादोऽधः शीर्यादुत्पलेन समो भवेत् । मध्ये सपादः साधेश्च तले वृद्धिः क्रमेण सा ॥ १८ ॥ षड्भागोऽस्याधिको यद्वा मध्ये त्र्यंशाधिकस्तले । तत्कुष्यमुत्पलव्यंशो मूले तस्यार्धमग्रतः ॥ १९ ॥ उत्सेधतुल्यो विस्तारः कार्यो वा भ्यङ्गुलाधिकः । सपत्रकलिकापत्रपुटग्रासविभूषितः ।। २० ।। कुर्यात् प्रदक्षिणाग्राणि शत्राकानि समन्ततः । ऊध्वाग्रा निखिलाः पादाः स्वामिनो वृद्धिहेतवे ॥ २१ ।। १. 'ध्यमा नृपतेः श' ख. ग. पाटः। २. विख. पाठः। ३., ४. 'ना' क. पाठः । १. सः' ख. पाठः । "Aho Shrut Gyanam"
SR No.009668
Book TitleSamarangana Sutra Dhara Part 1
Original Sutra AuthorBhojdev
AuthorGanpati Shastri
PublisherCentral Library
Publication Year1924
Total Pages346
LanguageSanskrit
ClassificationBook_Devnagari, Art, & Culture
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy